________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
१८१ वत्वं पुरुषाणां सिहमिति। तस्मादविद्याप्याविद्यकीति वानानम् ॥ १५॥
नन्यस्माकमविद्या पारिभाषिको न तु योगोलानात्मन्यात्मबुयादिरूपा तथा च भवतां प्रधानवदेवास्माकमपि तस्या पखण्डानादितया पुरुषनिष्ठत्वेऽपि नामङ्गताहानिरित्याश. कायां परिकल्पितमविद्याशब्दार्थ विकल्पा दूषयति ।
विद्यातोऽन्यत्वे ब्रह्मबाधप्रसङ्गः ॥ १६ ॥ यदि विद्यान्यत्वमेवाविद्याशब्दार्थस्तहिं तस्य ज्ञाननाश्यतया ब्रह्मण यात्मनोऽपि बाधो नाश: प्रसज्यते विद्याभिन्नत्वादित्यर्थः ॥१६॥
अबाधे नैष्फल्यम् ॥१७॥ यदि त्वविद्यारूपमपि विद्यया न बाध्येत तर्हि विद्यावैफल्यम्। अविद्यानिवत्त कवाभावादित्यर्थः ॥ १७ ॥ पक्षान्तरं दूषयति। विद्याबाध्यत्वे जगतोऽप्येवम् ॥ १८॥ यदि पुनर्विद्यया चेतने बाध्यत्वमेवाविद्यात्वमुच्यते तथा सति जगतः प्रकृतिमहदाखिलप्रपञ्चस्याप्येवमविद्यावं स्यात्। अथात प्रादेशो नेति नेत्यस्थलमनखित्यादिश्रुतिमिर्मिथ्याज्ञानस्येव प्रकत्यादेरप्यात्मनि बाधितत्वादित्यर्थः । तथा चाखिलप्रपञ्चस्य वाविद्यात्वे सत्य कस्य ज्ञानेनाविद्यानाशादन्यैरपि प्रपञ्चो न दृश्येतेति भावः । विद्यानाश्यत्वचावि द्यात्वं वक्तुं न शक्यते विद्यानाश्यत्वेन विद्यानाश्यग्रहासम्भवादात्माश्रयादिति ॥ १८॥
तद्रूपत्वे सादित्वम् ॥ १६॥
For Private And Personal Use Only