________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
सांख्यदर्शनम् ।
१८०
अन्यथा जौवव्यावृत्तस्येश्वर नित्यत्वादेगणत्वकल्पनागौरवम् । चौपाधिकानां नित्यज्ञानेच्छादीनां महदादिपरिणामानां चाङ्गौकारेण कौटस्थ्याद्युपपत्तेरित्यादिकं ब्रह्ममीमांसायां द्रष्टव्यमिति ॥ १२ ॥
नाविद्यातो बन्ध इति यत् सिद्धान्तितं प्रथमपादे तत्र परमतं विस्तरतः प्रघट्टकेन दूषयति । नाविद्याशक्तियोगो निःसङ्गस्य ॥ १३ ॥
परे प्राहुः प्रधानं नास्ति किन्तु ज्ञाननाश्यानाद्यविद्याख्या शक्तिश्व तने तिष्ठति तत एव चेतनस्य बन्धस्तन्नाशे च मोक्ष इति । तवेदमुच्यते । निःसङ्गतया चेतनस्याविद्याशक्तियोगः साक्षान्न सम्भवतौति । अविद्या ह्यस्मिंस्तदाकारता सा च विकारविशेषोऽधिकारहेतुसंयोगरूपं सङ्ग विना न सम्भवतौत्यर्थः ॥ १३ ॥
नन्वविद्यावशादेवाविद्यायोगो वक्तव्यः । तथा चापारमार्थिकत्वान्न तथा सङ्ग इति तत्राह । तद्योगे तत्सिद्दावन्योऽन्याश्रयत्वम् ॥१४॥ श्रविद्यायोगादविद्यासिद्धौ चान्योऽन्याश्रयत्वमात्माश्रयत्वम् । अनवस्था वेति शेषः ॥ १४ ॥
ननु वीजाङ्गरवदनवस्था न दोषायेत्याशङ्कयाह । न वोजाङ्क ुरवत् सादिसंसारश्रुतेः ॥ १५ ॥
वोजाङ्कुरवदप्यनवस्था न सम्भवति पुरुषाणां संसारस्याविद्याद्यखिलानर्थरूपस्य सादित्वश्रुतेः । प्रलयसुषुप्त्या - दावभावश्रवणादित्यर्थः । विज्ञानघन एवैतेभ्यो भूतेभ्यः समुन्याय तान्येवानुविनश्यतीत्यादिश्रुतिभिर्हि प्रलयादी बुद्धिभावेन तदीपाधिका विद्याविद्याद्यखिल संसारशून्य चिन्मा
For Private And Personal Use Only