________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः।
स्यादेतत्। ईश्वरसाधकप्रमाणविरोधेनैतेऽसत्तर्का एव । अन्यथैवंविधासत्तकै सहस्रः प्रधानमपि बाधितुं शक्यत इति तवाह।
प्रमाणाभावान्न तसिद्धिः॥ १०॥ तत्मिद्धिनित्ये बरे तावत् प्रत्यक्षं नास्तौल्यनुमानशब्दावेव प्रमाणे वक्तव्ये ते च न सम्भवत इत्यर्थः ॥ १० ॥ असम्भवमेव प्रतिपादयति सूत्राभ्याम् ।।
सम्बन्धाभावान्नानुमानम् ॥ ११ ॥ सम्बन्धी व्याप्तिः। अभावोऽसिद्धिः। तथा च महदादिकं सकर्तकं काय त्वादित्याद्यनुमानेष्वप्रयोजकत्वेन व्याप्यत्वासिया नेश्वरेऽनुमानमित्यर्थः ॥ ११ ॥ नापि शब्द इत्याह ।
श्रुतिरपि प्रधान कार्यत्वस्य ॥ १२ ॥ प्रपञ्चे प्रधान कार्यात्वस्यैव श्रुतिरस्ति न चेतनकारणत्वे । यथा।
अजामेकां लोहितशुल कृष्णां
बह्वीः प्रजाः सृजमानां सरूपाः । तडेदं तद्ययावतमासीत् तन्नामरूपाभ्यां व्याक्रियतेत्या दिरित्यर्थः । या च तदैक्षत बहु स्यामित्यादिश्चेतनकारण ताश्रुति: सा सर्गादावत्पन्नस्य महत्तत्त्वोपाधिकस्य महापुरुषस्य जन्यज्ञानपरा। किं वा बहुभवनानुरोधात् प्रधान एव कूलं पिपतिषतौतिवद्गौणौ । अन्यथा साक्षी चेता केवलो निर्गणश्वेत्यादिश्रुत्यक्तापरिणामित्वस्य पुरुषेऽनुपपत्ते रिति। अयं चेश्वरप्रतिषेध ऐश्वर्ये वैराग्यार्थमौवरजानं विनापि मोक्षप्रतिपादनार्थं च प्रौढिवादमावमिति प्रागेव व्याख्यातम् ।
For Private And Personal Use Only