SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ सांख्यदर्शनम् । णामपि महदादीनां स्वरूपतो नास्ति बाधः किन्तु संसर्गत एव चेतने बाधोऽयस्यौण्यबाधवत् । तथा कालत एवावस्थादिभिर्वाधगुणाद्यखिलपरियामिन इत्यर्थः ॥ २६ ॥ कुतः पुनः स्वरूपत एव बाधो न भवति स्वप्नमनोरथादिपदार्थवदिव्याकाङ्गायामाह । पञ्चावयवयोगात् सुखसंवित्तिः ॥ २७ ॥ sa विशिष्य पचौकरणाय विवादविषयैकदेशस्य सुखमात्रस्य ग्रहणं सर्वविषयोपलचकम् । सुखादिसंवित्तिरिति पाठस्तु समीचीनः । पञ्चावयवाश्व न्यायस्य प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि तेषां योगान्मलनात् सुखाद्यखिलपदार्थसिद्धिरित्यर्थः । प्रयोगश्चायम् । सुखं सत् । अर्थक्रियाकारित्वात् । यद्यदर्थक्रियाकारि तत् तत् सत् । यथा चेतनाः । पुलकादिरूपार्थक्रियाकारि च सुखं तस्मात् सदिति । चेतनानां चाविकारित्वेऽपि विषयप्रकाश एवार्थक्रियेति । नास्तिकं प्रति च व्यतिरेक्यनुमानं कर्त्तव्यं तत्र च शशशृङ्गादिदृष्टान्त इति ॥ २७ ॥ प्रत्यक्षातिरिक्त प्रमाणमेव न भवति व्याप्यत्वाद्यसिद्धेरिति चार्वाकः पुनः शङ्कते । न सक्कद्ग्रहणात् सम्बन्धसिद्धिः ॥ २८ ॥ मक्कत् सहचारग्रहणात् सम्बन्धो व्याप्तिर्न सिध्यति भूयस्त्व चाननुगतम् । अतो व्याप्तिग्रहासम्भवान्नानुमानेनार्थसिद्धिन रित्यर्थः ॥ २८ ॥ समाधत्ते । व्याप्तिः ॥ २८ ॥ नियतधर्म साहित्यमुभयोरेकतरस्य वा For Private And Personal Use Only
SR No.020635
Book TitleSankhya darshanam
Original Sutra AuthorN/A
AuthorShreekapil Maharshi
PublisherJivanand Vidyasagar Bhattacharya
Publication Year1893
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy