________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पञ्चमोऽध्यायः ।
१८५
धर्मसाहित्य धर्मतायां साहित्यम् । सहचार इति यावत् । तथा चोभयोः साध्यसाधनयोरेकतरस्य साधनमात्त्रस्य वा नियतोऽव्यभिचरितो यः सहचारः स व्याप्तिरित्यर्थः । उभयोरिति समव्याप्तिपचे प्रोक्त नियमश्वानुकूलतर्केण ग्राह्य इति न व्याप्तिग्रहासम्भव इति भावः ॥ २८ ॥
व्याप्तिर्वच्यमाणशक्त्यादिरूपं पदार्थान्तरं न भवतीत्याह ।
न तत्त्वान्तरं वस्तुकल्पनाप्रसक्तः ॥ ३० ॥ नियत साहित्यातिरिक्ता व्याप्तिनं भवति व्याप्तित्वायस्य वस्तुनोऽपि कल्पनाप्रसङ्गात् । अस्माभिस्तु सिद्धवस्तुन एव व्याप्तित्वमाचं क्ल प्तमित्यर्थः ॥ ३० ॥
परमतमाह ।
निजशक्त्यङ्गवमित्याचार्य्याः ॥ ३१ ॥
अपरे त्वाचार्या व्याप्यस्य स्वशक्तिजन्य शक्तिविशेषरूपं तत्त्वान्तरमेत्र व्याप्तिरित्याहुः । निजयक्तिमात्र तु यावद्द्रव्यस्थायितया न व्याप्तिः । देशान्तरगतस्य धूमस्यापि वकाव्याप्यत्वात् । देशान्तरगमनेन च सा शक्तिर्नाश्यत इति नोक्तलक्षगणऽतिव्याप्तिः । स्वमते तूत्पत्तिकालावच्छिन्नत्व ेन धूमो विशेषणीय इति भावः ॥ ३१ ॥
आधेयशक्तियोग इति पञ्चशिखः ||३२||
बुदयादिषु प्रकृत्यादिव्याप्यताव्यवहारादाधारताशक्तिर्व्यापकताधेयताशक्तिमत्त्वं च व्याप्यत्वमिति पञ्चशिख इत्यर्थः
॥ ३२ ॥
नन्वाधेयशक्तिः किमर्थं कल्पयते व्याप्यस्य वस्तुनः स्वरूपशक्तिरेव व्याप्तिरस्तु तत्राह ।
न स्वरूपशक्तिर्नियमः पुनर्वादप्रसक्तः ॥ ३३ ॥
For Private And Personal Use Only