Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 434
________________ 1 | देशनान्ते योजिताञ्जलिपुटा मृगाङ्कलेखा पृच्छति स्म - भगवन् ! मया पुरा भवे किं दुष्कृतं कृतं ? येनानुभूता दुःखपरम्परा, भगवानप्याह - सिंहपुरे दर्पपराभूतसर्पः कन्दर्पनामा विप्रः कनकरत्नमयप्रासादे वसति स्म, बहुविधविद्यानिष्णातो राजसुतेनानकदेवेन शश्वदाराध्यमानस्तृणाय जगन्मन्वानः सोऽनुदिनं तिष्ठति स्म । इतश्च तस्मिन्पुरे शतकीर्त्तिनामा घोरतपश्चरणचारी परित्राद् लोकप्रसिद्धो वसति स्म । पुरोहितस्तु तद्गौरवमसहमानो निष्कारणरोषणो राजदेवमुखेन मित्रं कन्दर्पद्विजमाह स्म भोः ! शतकीर्त्ति कथमपि जनेष्वपवादमषीमलीनमातनुः सोऽपि गुर्वनुग्रहराजाभियोगी दुःख फलावविचारयंस्तद्वचः खीचकार । अथ तत्र पत्तने पद्मदेवतनया कमलानाम्नी ललिताश्रेष्ठितनये रक्तचित्ता प्रच्छन्नं कस्याप्यनिवेदितवृत्तान्ता क्वापि ययों, दैववशात्तस्मिन्नेवाहनि मुधाजीवी शतकी र्त्तिर्जनेभ्योऽनिवेद्य ग्रामान्तरमगमत् तदा लोकेष्वितिवार्त्ता प्रससार - यत्कमला केनाप्यन्यायकारिणा नरेण सह जगाम । तदा पुरोधो गुरूपरोधेन राजकुमारस्य चाग्रहेण कन्दर्पो जनेषूदघोषयत् - नूनं कमलां शतकीर्त्तिरादायागमत्, यत्सा तमेवानिशमाराधयन्यासीत्, अतो द्वयोरप्येतयोर्विप्रन्धयोः सम्बन्धः सम्भाव्यते, ततोऽतत्त्वज्ञो जनस्तथैव तद्वचो मन्वानः सर्वधर्मत्रहि कृतोऽजनि । एकदा शत कीर्त्तिर्मामान्तरादागतस्तेन कन्दर्पेण स्ववचनासत्यताभीरुणा लोकैः सह गत्वा यष्टिमुष्टयादिभिस्ताडितः । सोऽप्युपशान्तखान्तस्तत्सर्व सेहे । ततः सप्तमेऽह्नि कन्दर्पस्य 1 १ सर्वेषु धर्मेषु विरक्तोऽजनि इवि प्र०

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490