Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
वशगा प्रियभार्येव, समस्ता सागराम्बरा । भवित्री तस्य चक्रित्वपदव्यपि न संशयः ॥ ११६ ॥ युग्मम् । वाचा देवज्ञकस्येति श्रुत्वा राजा व्यचिन्तयत् । नान्यत्र दीयते कन्यारत्नमेतत् सुलक्षणम् ॥ ११७ ॥ हहा लोभो नर्थानां मूलं युक्तमुदाहृतः । तन्मूढो यत्पिताऽपीमां, कनों परिणिभाषांते ॥ ११८ ॥ तद् ज्ञात्वा मन्त्रिभिः पापात्तस्माद्भूपो निवारितः । तां विनाशयितुं भृत्यानादिदेश दुराशयः ॥ ११९ ॥ विचारचतुरैर्मत्रिमुख्यैः प्रच्छन्नवेश्मनि । सा स्थापि - ताऽपि केनापि, न्यगद्यत महीभुजे ॥ १२० ॥ तेषामुपरि साक्षेपं, चुकोप स कृतान्तवत् । अन्यायिनां कुतो बुद्धिः ?, शुद्धा जागर्त्ति पुण्यषु ॥ १२१ ॥ तदा पापात्मनस्तस्मादात्मानं राक्षसादिव । परित्रातुं भवत्पार्श्वमावां संप्रेषितौ प्रभो ! ॥ ११२ ॥ प्राप्तमात्रं भवन्तं ते, न्यायिनं पुण्यसागरम् । चिन्तारत्वमिवाश्रित्य तं सक्ष्यन्ति विषौघवत् ॥ १२३ ॥ एवं तयोर्वचः श्रुत्वा स निर्गतसुखो नृपः । खं राज्यं मत्रिषु न्यस्थाभिप्रायं चाप्रकाशयन् ॥ १२४ ॥ तावेकाकी पुरः कृत्वा, खङ्गव्यग्रः स पार्थिवः । प्रस्थाय खपुरात्प्राप, सत्त्वरं श्रीपुरं पुरम् ॥ १२५ ॥ युग्मम् । मत्रिभिः स्वीकृतस्तत्र, जयलक्ष्मी समं श्रिया । पाणौ चक्रे नृपः पुण्यवतां स्थात्किमु दुर्लभम् १ || १२६ || श्रीनिर्गतसुखस्याज्ञा, प्रावर्त्तत पुरेऽखिले । नंवा शृगालवद्भीतः, क्वाप्यगान्नरकेसरी ॥ १२७ ॥ पुण्यप्रभावतो राज्यं, पालयन् न्यायतत्परः । जयलक्ष्मीं जनं चैप, स्वगुणैरन्वरञ्जयत् ॥ १२८ ॥ कियद्भिर्वासरैर्यातैः, श्रीमत्तक्षशिलापुरात् । समेत्यानत्य भूपालो, व्यज्ञायत नरोत्तमैः ॥ १२९ ॥ खामिंस्तव पुरी सैन्यैः सुरतेजोमहीभुजा । महासतीव दुर्वारपरपुंसा न्यरुध्यत ॥ १३० ॥
"

Page Navigation
1 ... 478 479 480 481 482 483 484 485 486 487 488 489 490