Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
*
तेजिता विवृतिशाणकयत्रयोगात् ॥ १॥ जैनं वाक्यमनन्तार्थ, शेमुषी नः कृशा भृशम् । अत उक्तं यदुत्सूत्रं, तमिश्यादुष्कृतं मम ॥ २॥ Maa इति श्रीरुद्रपल्लीयगच्छगगनमण्डनदिनकरश्रीगुणशेखरसूरिपट्टावतंसश्रीसक्षतिलकसूरिविरचितायां सम्यक्त्वसप्तति
कावृत्ती तत्त्वकौमुदीनाम्या सम्यक्त्वस्थानपखरूपनिरूपणो नाम द्वादशोऽधिकारः समाप्तः ॥ 1 अथ प्रशस्तिः-श्रीवीरशासनमहोदधितः प्रसूतः, प्रोद्यत्कलाभिरभितः प्रथितः पृथिव्याम् । माद्यन्महःप्रसरनाशित
तामसोऽस्ति, श्रीचन्द्रगच्छ इति चन्द्र इवाद्भुतश्रीः ॥ १॥ तत्रासीद्धरणेन्द्रबन्धचरणः श्रीवर्धमानो गुरुस्तत्पट्टे च ४ जिनेश्वरः सुविहितश्रेणीशिरःशेखरः । तच्छिष्योऽभयदेवमूरिरभवद्रमन्नवाजीमहावृत्तिस्तम्भनपार्श्वनाथजिनराङ्मुर्तिप्रकाशैककृत् ॥ २॥ तत्पपूर्वाचलचूलिकायां, भास्वानिव श्रीजिनवल्लभाख्यः । सञ्चसम्बोधनसावधानबुद्धिः । प्रसिद्धो गुरुमुख्य आसीत् ॥ ३ ॥ तच्छिष्यो जिनशेखरो गणधरो जज्ञेऽतिविज्ञाग्रणीस्तत्पादाम्बुजराजहंससदृशः श्रीपचन्द्रप्रभुः । तत्पट्टाम्बुधिवर्द्धनः कुवलयप्रोद्यत्प्रवोधैकधीः, श्रीमान् श्रीविजयेन्दुरिन्दुवदभूच्छश्वत्कलालतः ॥ ४॥ पढे तदीयेऽभयदेवमूरिरासीद् द्वितीयोऽपि गुणाद्वितीयः। जातो यतोऽयं जयतीह रुद्रपडीयगच्छः मुतरामतुच्छः ॥ ५॥ तत्पादाम्भोजभृङ्गोऽजनि जिनसमथाम्भोधिपायोधिजन्मा, सूरीन्द्रो देवभद्रोऽनुपमशमरमाराममेघोपमानः। तस्यान्तेवासिमुख्यः कुमतमतितमश्चण्डमार्तण्डकल्पः, कल्पद्रुः कल्पितार्थप्रवितरणविधी श्रीप्रमानन्दसूरिः ॥ ६ ॥
*5*
CHER

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490