Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 471
________________ एसिं दुहिपरिन्ना दंसणसुद्धिं करेइ भव्वाणं । सुद्धमि दंसणंमी, करपल्लवसंठिओ मुक्खो ॥ ६७ ॥ व्याख्या- 'एषां' सम्यक्त्वभेदानां द्विविधा - सामान्यविशेषात्मकतया परिज्ञा 'भव्यानी' मोक्षगमनार्हाणां 'दर्शनशुद्धि' सम्यक्त्वनैर्मल्यं 'करोति' आपादयति, तस्मिंश्च 'दर्शने' सम्यक्त्वे 'शुद्धे' अकलुषे 'करपल्लवसंस्थितः' शयकिशलयगतो 'मोक्ष' मुक्तिः, यदागमः - " संमत्तंभि उ लद्धे पलियपुहुत्त्रेण सावओ हुज्जा । चरणो समस्याणं सायरसंखेत हुति ॥ १ ॥ इर्थः ॥ २७ ॥ सा च सम्यक्त्वशुद्धिः कथं स्यादित्याह - संघे तित्थयरम्मी, सूरि रिसीसु गुणमहग्धेसुं । अपच्चओ न जेसिं, तेसिं चिय दंसणं सुद्धं ॥ ६८ ॥ व्याख्या–‘सङ्घे' साधुसाध्वीश्रावक श्राविकारूपे 'तीर्थकरे' श्रीमदर्हति 'सूरिषु' पञ्चविधा चारचारचक्षुरेषु ' - षिषु साधुषु एतेषु किंभूतेषु ? - ' गुण महार्घेषु' खखानुरूपगुणपूज्येषु 'येषां' विवेकिनां 'नाप्रत्ययो' मनोवाक्कायैर्नाविश्वासस्तेषां चैव 'दर्शन' सम्यकत्वं 'शुद्धम्' अवदातमिति गाधार्थः ॥ ६७ ॥ ये त्वेवंविधा न स्युस्तेषां लक्षणमाह जे पुण इय विवरीया, पल्लवगाही सत्रोहसंतुट्ठा | सुबहुपि उज्जमंता ते दंसणवाहिरा नेया ॥ ६८ ॥ व्याख्या---ये पुनः 'इति' प्रागुक्तप्रकारेण 'त्रिपरीताः' सङ्घादिषु प्रत्यनीकाः 'पल्लवमाहिणः कस्यापि कस्यापि

Loading...

Page Navigation
1 ... 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490