Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
CARKONKANGRA
घटाकोटिसंटङ्कमाटीकते, भूम्यादिमहद्भूतचतुष्टयायतिरिक्तं परलोकादिभवभ्रमणप्रवणमन्यज्जीवादिक वस्तु नदरीदृश्यते, असालान, तथाहि-मासि परिताप शाहगागाविषयत्यायोमारबिन्दवत् , यच सदूपमस्ति न तत्प्रत्यक्षप्रमाणातीतं, यथा चत्वारि भूतानीत्युक्त्वा स्थिते भूपरिवृढे भगवन्तोऽभाषन्त-राजन्नरमात्मा किं भवतोऽध्यक्षागोचर उत्त | सर्वेषां ?, तत्र चेत्तयाप्रत्यक्षत्वान्नास्ति तदा विप्रकृष्टदेशकालखभावानां भूम्नामुर्वीपर्वततर्वादीनामप्यसवप्रसङ्गः, भवतोऽप्येषामैन्द्रियकज्ञानेनानवलोकनात् , यदि च सकललोकावलोकनातीतत्वान्नास्तीति निगद्यते, तदपि सावा, जगजनप्रत्यक्षाणां तेषां भवदनध्यक्षत्वात् , उत तेऽपि भवदध्यक्षास्तदा भवत्येव जगज्जीवप्रसङ्गः, किञ्च-चैतन्यमिदं चतुर्भूतानां प्रकृतिरुत कार्य ?, न तावत्प्रकृतिः, तेषां चैतन्यवन्ध्यत्वात् , न चापि कार्य, भूतानुरूपताऽसत्त्वात् , अथ सर्वभूतसंयोगाचैतन्यमुत्पद्यते, यथा मद्यानेभ्यो मदशक्तिः, तदप्यपटु, यस्य वस्तुनो यत्रामावस्तत्र तस्योत्पादाभाव एव, यथा धूलीकणालीभ्यस्तैलं, मद्याङ्गेषु च सर्वेषु प्रत्येकं मदशक्तिसद्भावात् , सर्वजगदनुभवसिद्धं चेदं चैतन्यं यस्य कस्यापि स्वभावः स भूतेभ्यो भिन्न एव परभवगामी जीवः, द्रव्यपर्यायभेदैश्च नित्यानित्यः स्वकर्मफलोपभोक्ता पुण्यपापक्षयान्मोक्षगामीति स्थितं । तओ नरिंदेण पचुत्तरदाणासमेण भणियं-भयवं ! जइ परभवगामी एस जीवो जाय ता मज्झ पिया बहुविहजीवघायणनिबद्धमई तुम्हाणं मए अवस्सं नरए गओ भविस्सइ, ता एस कहमिह आगंतूण मं पावाओ न निवारेइ ?, गुरूणावि वुत्तं-जहा कोऽवि महामन्नायकारी निविडनियडेहिं निगडिऊण कारागारंतरे ।

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490