Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya,
Publisher: Naginbhai Ghelabhai Zaveri Mumbai
View full book text
________________
जगत्सृजति ?, मूर्त्त श्रेञ्जगत्सृजति तदा कुलालवत्किं न दरिदृश्यते ?, अतो न मूर्त्तः कर्त्ता, अथामूर्ती जगत्सृजति तर्हि तस्य शरीराद्यभावात्कथं जगत्सृष्टिसामर्थ्यमिति दूरापास्तैव जगत्कर्तृत्वकथा, अतः शुभाशुभान्येव कर्माणि जीवः करो| तीति सिद्धं, कैर्हेतुभिरित्याह- 'कसायत्ति' 'कपाययोगादिभिः तत्र कषायाः - अनन्तानुवन्ध्य प्रत्याख्यानप्रत्याख्यानसचलनरूपाः क्रोधमानमाया लोभाः षोडश, योगाः - मनोवचनकायरूपाः पञ्चदश, उक्तं च- “सचं मोसं मीसं अस चमोसं मणं तह वई य । उरलविउधाहारा मीसगकम्मइग इय जोगा ॥ १ ॥ अत्र मकारोऽलाक्षणिकः, आदिशब्दान्नवनो कषायमिथ्यात्वपञ्चकद्वादशाविरतीनां परिग्रहः, एवंविधैर्बन्धहेतुभिरिति, अत्रार्थे दृष्टान्तमाह- 'मिउत्ति' मृन्- मृत्तिका दण्डो - भ्रमणयष्टिः चक्रं प्रसिद्धं चीवरं संमार्जन वस्त्रं, मृच दण्डश्च चक्रं च चीवरं च मृद्दण्डचक्रचीवराणि तेषां यः 'सामग्रीवशः' सहकारिकारणसामर्थ्यं तस्मात् 'कुलाल इव' कुम्भकार इव, यथा कुलालो मृदादिभिर्घटमुत्पादयति तथा जीवः कषायादिभिः कर्म बध्नातीत्येवं ज्ञाततत्त्वः सम्यक्त्वस्थानतामवगाहत इति तृतीयं स्थानमिति गाथार्थः ॥ ६२ ॥
अथ चतुर्थ भोक्तृनामकं स्थानमाह
भुंजइ सयंकयाइं परकयभोगे अइप्पसंगो उ । अकयस्स नत्थि भोगो अन्नह मुक्खेऽवि सो हुज्जा ॥ ६३ ॥ व्याख्या -- इह हि महामोह धूमध्वजधूमव्याकुलीकृताक्षा अक्षपादादय इति ब्रुवते, यद्-ईश्वरप्रेरणया सर्वः कोऽपि

Page Navigation
1 ... 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490