________________
जगत्सृजति ?, मूर्त्त श्रेञ्जगत्सृजति तदा कुलालवत्किं न दरिदृश्यते ?, अतो न मूर्त्तः कर्त्ता, अथामूर्ती जगत्सृजति तर्हि तस्य शरीराद्यभावात्कथं जगत्सृष्टिसामर्थ्यमिति दूरापास्तैव जगत्कर्तृत्वकथा, अतः शुभाशुभान्येव कर्माणि जीवः करो| तीति सिद्धं, कैर्हेतुभिरित्याह- 'कसायत्ति' 'कपाययोगादिभिः तत्र कषायाः - अनन्तानुवन्ध्य प्रत्याख्यानप्रत्याख्यानसचलनरूपाः क्रोधमानमाया लोभाः षोडश, योगाः - मनोवचनकायरूपाः पञ्चदश, उक्तं च- “सचं मोसं मीसं अस चमोसं मणं तह वई य । उरलविउधाहारा मीसगकम्मइग इय जोगा ॥ १ ॥ अत्र मकारोऽलाक्षणिकः, आदिशब्दान्नवनो कषायमिथ्यात्वपञ्चकद्वादशाविरतीनां परिग्रहः, एवंविधैर्बन्धहेतुभिरिति, अत्रार्थे दृष्टान्तमाह- 'मिउत्ति' मृन्- मृत्तिका दण्डो - भ्रमणयष्टिः चक्रं प्रसिद्धं चीवरं संमार्जन वस्त्रं, मृच दण्डश्च चक्रं च चीवरं च मृद्दण्डचक्रचीवराणि तेषां यः 'सामग्रीवशः' सहकारिकारणसामर्थ्यं तस्मात् 'कुलाल इव' कुम्भकार इव, यथा कुलालो मृदादिभिर्घटमुत्पादयति तथा जीवः कषायादिभिः कर्म बध्नातीत्येवं ज्ञाततत्त्वः सम्यक्त्वस्थानतामवगाहत इति तृतीयं स्थानमिति गाथार्थः ॥ ६२ ॥
अथ चतुर्थ भोक्तृनामकं स्थानमाह
भुंजइ सयंकयाइं परकयभोगे अइप्पसंगो उ । अकयस्स नत्थि भोगो अन्नह मुक्खेऽवि सो हुज्जा ॥ ६३ ॥ व्याख्या -- इह हि महामोह धूमध्वजधूमव्याकुलीकृताक्षा अक्षपादादय इति ब्रुवते, यद्-ईश्वरप्रेरणया सर्वः कोऽपि