Book Title: Samyktvasaptati
Author(s): Sanghtilakacharya, 
Publisher: Naginbhai Ghelabhai Zaveri Mumbai

View full book text
Previous | Next

Page 459
________________ * | सुखदुःखादिकं स्वर्गनरकादिष्वनुभवति, यदूचुस्त थ्याः-"ईश्वरप्रेरितो गच्छेत्स्वगर्ग वा श्वभ्रमेघ वा । अन्यो जन्तु-18 रनीशोऽयमात्मनः सुखदुःखयोः ॥१॥" इति, तन्निरासायाह-'भुञ्जई'त्ति भुङ्क्ते अनुभवति खयम्-आत्मना, कृतानि-विहितान्यर्थापत्त्या शुभाशुभानि कर्माणीति गम्यते, अत एवोक्तम्-“नामुक्त क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥ १॥" यद्येवं तर्हि परकृतानि भुले न वेत्याह-'परकय'त्ति । परकृतभोगे' अन्यकृत कमेण्यन्यस्य भोक्तृत्वेऽतिप्रसाः, तुः निश्चयार्थः, यवन्यकृतमन्यो मुझे तदा देवदत्ते मुक्ते सर्वस्यापि जगतस्तृप्तिः स्यात् , तथा च न दृश्यते, अतः परकृतं कर्म प्राणी न भुके, किन्तु खकृतमेवानुभवति, यदागमः-"जीवे णं भन्ते ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे ?, गोयमा! अत्तकडे दुक्खे नो परकडे |दुक्खे नो तदुभयकडे दुक्खे" यद्येवमपि तबकृतस्य भोगो भवति न वेत्साह-'अकयस्स'त्ति अकृतस्य अनुपार्जि-18 तस्य 'नास्ति' न विद्यते भोगः, अकृतस्य वस्तुन एवाभावः शशशृङ्गवत् , अतः कथं तद्भोगः?, 'अन्यथा' तद्वैपरीये सकलकर्मात्यन्तोच्छेदावाप्से 'मोक्षे' मुक्तावपि स कृतभोगः स्यात्, तथा च न किमिति !, कर्मवन्धाभावात्तदनुभवकारिपौद्भलिकशरीराभावाच, इत्येवं ज्ञाततत्त्वस्य पुंसश्चतुर्थ सद्दर्शनस्थानं भवतीति गाथार्थः ॥ ६३ ॥ अथ पञ्चमं निर्वा-2 णाख्यं स्थानमाहनिव्वाणमक्खयपयं निरुवमसुहसंगयं सिवं अरुयं । जियरागदोसमोहेहिं भासियंता धुवं अस्थि ॥६॥ *** ****** *

Loading...

Page Navigation
1 ... 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490