SearchBrowseAboutContactDonate
Page Preview
Page 434
Loading...
Download File
Download File
Page Text
________________ 1 | देशनान्ते योजिताञ्जलिपुटा मृगाङ्कलेखा पृच्छति स्म - भगवन् ! मया पुरा भवे किं दुष्कृतं कृतं ? येनानुभूता दुःखपरम्परा, भगवानप्याह - सिंहपुरे दर्पपराभूतसर्पः कन्दर्पनामा विप्रः कनकरत्नमयप्रासादे वसति स्म, बहुविधविद्यानिष्णातो राजसुतेनानकदेवेन शश्वदाराध्यमानस्तृणाय जगन्मन्वानः सोऽनुदिनं तिष्ठति स्म । इतश्च तस्मिन्पुरे शतकीर्त्तिनामा घोरतपश्चरणचारी परित्राद् लोकप्रसिद्धो वसति स्म । पुरोहितस्तु तद्गौरवमसहमानो निष्कारणरोषणो राजदेवमुखेन मित्रं कन्दर्पद्विजमाह स्म भोः ! शतकीर्त्ति कथमपि जनेष्वपवादमषीमलीनमातनुः सोऽपि गुर्वनुग्रहराजाभियोगी दुःख फलावविचारयंस्तद्वचः खीचकार । अथ तत्र पत्तने पद्मदेवतनया कमलानाम्नी ललिताश्रेष्ठितनये रक्तचित्ता प्रच्छन्नं कस्याप्यनिवेदितवृत्तान्ता क्वापि ययों, दैववशात्तस्मिन्नेवाहनि मुधाजीवी शतकी र्त्तिर्जनेभ्योऽनिवेद्य ग्रामान्तरमगमत् तदा लोकेष्वितिवार्त्ता प्रससार - यत्कमला केनाप्यन्यायकारिणा नरेण सह जगाम । तदा पुरोधो गुरूपरोधेन राजकुमारस्य चाग्रहेण कन्दर्पो जनेषूदघोषयत् - नूनं कमलां शतकीर्त्तिरादायागमत्, यत्सा तमेवानिशमाराधयन्यासीत्, अतो द्वयोरप्येतयोर्विप्रन्धयोः सम्बन्धः सम्भाव्यते, ततोऽतत्त्वज्ञो जनस्तथैव तद्वचो मन्वानः सर्वधर्मत्रहि कृतोऽजनि । एकदा शत कीर्त्तिर्मामान्तरादागतस्तेन कन्दर्पेण स्ववचनासत्यताभीरुणा लोकैः सह गत्वा यष्टिमुष्टयादिभिस्ताडितः । सोऽप्युपशान्तखान्तस्तत्सर्व सेहे । ततः सप्तमेऽह्नि कन्दर्पस्य 1 १ सर्वेषु धर्मेषु विरक्तोऽजनि इवि प्र०
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy