SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ |सा सुयशसं प्रस्साह स्म-भो निष्कारणयत्सल परमबन्धो ! तव कीर्तिरायुगान्तं धवलयतु, येन भवता सागरदत्तस्य । | निःशेष कुलमुद्धृतं, एवं ब्रुवाणा सा सागरेण वयामपार्थे सखीसमेतोपवेश्य भाषिता-प्रिये! मद्विरहविधुरया त्वया | । यहुःखमनुभूतं तन्मया त्वद्वियोगेन तिलतुषानमात्रमपि न सेहे, एतच मम पुण्यमगण्यं यत्त्वं सुरेन्द्रदत्तयुता मट्ट पथमवतीर्णा । अथ कनकध्वजराजा कनकबाहुनाऽऽत्मरक्षकेण सहितः सागरचन्द्रागमनं निशम्य तत्रैव रथादा-14 ययौ, ततो राजा तं सजायं राजकुञ्जरमारोप्य कारितहट्टशोभे स्वपुरे प्रवेशयामास । मासमेकं सत्कारपुरस्सरमवस्थाप्य | स्कन्धावारं च दत्त्वोजयिन्यां राज्ञा सागरचन्द्रः सपरिकरः प्रापितः । सुयशोमुखाद्विज्ञातवृत्तान्तेनावन्तिसेनभूए-| तिना सागरदत्तेन सह सम्मुखमेत्य मगौरवं परिजनैः सस्पृहमवलोक्यमानः सागरचन्द्रः पुरं प्रावेश्यत, स्वगृहं च गत्वा , क्षामितमृगाङ्कलेखां मातरमनंसीत् , मृगाङ्कलेखापि गुरुजनं प्रणिपत्य निजावासमाससाद । सागरचन्द्रेणापि सुतसहितेन विविधवित्तव्ययेन जिनभवनविधापनादिधर्मेरात्मा विध्वस्तपापपरश्चके । सोऽन्यदा युगन्धरनामानं केवलि-11 नमुद्याने समवसृतं श्रुत्वाऽमजदयितायुतस्तत्र गत्वा तं च नत्योपाविशत् । राजादयोऽपि लोकास्तदा तदुपदिष्टां - धर्मकथामिति शुश्रुवुः-"निजकर्मवशाज्जीवा अधनाः सधना जडाशया अजडाः । सुभगाश्च दुर्भगा अपि भवन्ति । | पूज्या अपूज्याश्च ॥१॥ मिथ्यात्वमविरतरतिः कषाययोगास्तथा प्रमादश्च । कर्मप्रकृतेर्बन्धनकारणमेतानि जायन्ते । |॥२॥ शुभाशुभैः सदा जीवाः, कर्मभिः सुखदुःखिनः । भ्राम्यन्तेऽसारसंसारे, छियन्तां तानि तदुधैः ॥ ३॥"
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy