SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ KARAC TRAXXARA* सुरेन्द्रदत्तमादिदेश-वत्स ! किं संशेषे ?, श्रीमरुदेवानन्दनपदप्रसादादिह ते जननी खयमेव सम्प्राप्ता, तत्कुर, मातृवरणप्रणमनं, भद्रे मृगाक्कलेखे ! तवैष सुतः यस्त्वया यक्षायतने मुक्त आसीत् , स त्वद्भाग्येनात्र समेतः । ततः | सुरेन्द्रदत्तः सरभसमुपसृत्य हर्षवशप्रसरनयनाम्चुकणैर्मुक्ताफलहारैरिव जननीपदपनमर्चवन्नमश्चक्रे, जनन्याऽपि सः निजोत्सङ्गीकृत्य हगानन्दाश्रुकणैः स्त्रपयन्त्येव शिरश्चुम्बनपूर्वकं स्वरूपमप्रच्छि, सोऽपि खव्यतिकरं मात्रे निवेदयामास । अत्रान्तर प्रमोदमेदुरोदरः सुयशास्तं ब्रूते स्म-वत्स ! परमोत्सवेन वयसे, एकाकी स्वप्रियां काननादिषु शोधयन्नधुना सागरचन्द्रोऽस्य पुरस्याऽऽसन्नवी वर्तते इति निशम्य त्रुट्यत्कझुकसन्धिबन्धनरेखा मृगाङ्कलेखा पुलकाकितकाया समवृतत् , ततः सुरेन्द्रदत्तो जननीयुतः सुयशसमाह स्प-बद व मे स जनकः ? समेत इति ब्रुवाणः | त सुरेन्द्रदत्तः पौरजनजननीयुतः पितृसम्मुखं प्रतस्थे, सुयशास्तु पूर्व गत्वा सागरचन्द्राय प्रियायाः सुतस्य चागमनं न्यवे-16 । दयत्, ततस्तत्रैव प्रियमेलकोद्यानप्रान्ते तेषां कृतविप्रयोगदुःखलीलावहेलो मेलोजनि । सुरेन्द्रदत्तस्तु तदैव निजजन्मदिनं मन्यानः पितुः पादानवन्दत । सागरचन्द्रोऽपि तमात्मजं परिरभ्योत्सनसङ्गिनमासूत्र्य पूगतरुतले उपाविशत् ।। मृगाङ्कलेखया च यमुनेव गङ्गया परमानन्दामृतरसपूरपूरितया चित्रलेखा समाश्लेषि । तदा तु तेषां यत्सुखमजनि । । तत्कविगिरामप्यगोचरचारि । ततश्चित्रलेखामुखात्पतिचरित्रं श्रोत्रपुटेनामृतमिव निपीय भर्तृपदपद्मागविलुठद्देहा मृगाङ्कलेखा रुरोद-हा नाथ ! ममाधन्यायाः कृते कथं हुतभुप्रवेशाध्यवसायसाहसो मदुचितस्त्वयाऽकारि ?, ततः। ROMPX.KRR:
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy