SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ : म 4% पुरे प्रज, मा चानुजानीहि नन्दीश्वरवरद्वीपजिनचैत्यनमस्करणायेत्युक्त्वोत्पपात सा नभोवम॑नि । अथ सागरश्चिम्तयति स्म-धन्योऽहमेव यजीवन्ती सपुत्रा मृगाङ्कलेखा मिलिष्यति, ततः स त्यक्तमरणाभिलापो गिरिशक्षाचीर्य यावत्पुरः कियती भुवं व्रजति स्म तावत्सदुःखं क्लिपन्या एकस्या नायिकाया रुदितध्वनिमशृणोत्-हा दैव! सा मे प्रियसखी प्रियोगा विप्रयुरुता शामिलनियमिता गर्भालसदेहकाकिनी मां विना कथं भयित्रीति निशम्य सागरः खरेण चित्रलेखामनुमीय तत्समीपं गत्वाऽऽश्वास्य च मृगाकलेखायाः शुद्धिमपृच्छत्, साऽपि तं! खामिनमभिज्ञाय सगद्गदमवदत्-देव ! श्वशुरपितृकुलापमानिता भवन्मिलनाय चित्रगुप्तसार्थवाहेन सहारण्ये संस्थिताऽऽसीत् तदाऽहं सार्थात्परिभ्रष्टा दुष्टशवरैर्धनलोभेन धृत्या पली नीता, सा च पछी सम्प्रति श्रीविजयराजकुअरेण वल्लरीयोदमूलि मूलतः, ततोऽहं प्रपलाग्यात्रायाता भयता मिलिता, सोऽपि तस्यै निवेदितखोदन्तः सिद्धार्थपुरासन्नप्रदेशे ययौ । अथ सुरेन्द्रदत्तः प्रियमेलकोद्यानमण्डनश्रीनाभेयजिनमवने सम्प्रासो भगवन्तं त्रिसन्ध्यमर्चयन् । स्वकृत्यसाधनार्थमष्टाहिकामहामहं कर्तुमारेभे । तस्मिंश्च महे सर्वजनाश्चर्यकारिणि दुरन्तदुरितविदारिणि तद्ययित्तबहुतरद्रविणे पौरजनेन समं मृगाङ्कलेखा समाययो । तत्र च युगादिजिनक्रमकमलयुगलं प्रणिपत्य विकसन्नेत्रपत्रा पुत्रधिया पुनः पुनः सुरेन्द्रदत्तं पश्यन्ती प्रक्षरत्स्तन्यधारावारा धरातलमभ्यषिश्चत् । सोऽपि तां तथा दृष्ट्वा प्रोदच-12 दुबरोमाशो ध्रुवमेषा मे मातेति यावश्यतयत् तावत्स सुयशाः सिद्धपुत्रो नन्दीश्वरयात्रामासूत्र्य तत्र च समेत्य । E % %
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy