SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ रसनायां दुष्टस्फोटिकोऽजनेष्ट, तत्पीडयाऽऽसैध्यानपरी मृत्वा सारमेयीभूय तथैयाऽऽवाधया विषद्य वेश्यात्वमाप, तत्र च चन्दनधनिसुतसम्पर्केण जिनधर्मे निश्चलाऽभवत् तदनुभावसआत सौभाग्योदयाद्यं यं कटाक्षलक्षीचकार तं तं कन्दर्पस दशति स्म । अन्यदा सरस्तीरे विलसन्ती राजहंसमिथुनं मिथः क्रीडदवलोक्य कुतूहलेन हंसं गृहीत्वा कुङ्कुमपङ्केनालिप्यामुञ्चत्, ततो इंया रथाङ्गभ्रान्त्या सकरुणमारसन्त्या विरहेण मूर्च्छन्त्यैकविंशतिघटिकां यावम्मरालेन सह न विलेसे, पुनस्तया विलासिन्या जातकरुणया जलेन जागुडं प्रक्षाल्य विशदीकृतो मरालो मराल्याऽऽदद्रे, तत्प्रदेशाद्विलासिन्यपि खत्रेश्म गत्वा सुचिरं धर्ममनुपालय समाधिना मुत्वा मायादोषेण सौधर्मेन्द्रस्याग्रमहिषीभूय च्युत्वा च शीलप्रातरेखा मृगाङ्गलेखा त्वमभूः । सोऽप्यनङ्गदेवः कन्दर्पद्विजकृतपापमनुमोद्य सुचिरं भवान् भ्रान्त्वा चित्रलेखात्वेनावतीर्णः, यत्तदा स कलङ्कितस्तेनाजीर्णेन पातकेन भवती कलङ्किता, यच तपखी ताडितः | तेन दुरन्ता दुःखपरम्परा भवलाऽनुभूता, अनुमतपातका च तव समदुःखा चित्रलेखाऽपि संवृत्ता यचैकविंशतिटिका हंसो हंस्या सह व्ययोज्यत तेनैकविंशतिवर्षास्त्वापि प्राणेश्वरेण सह विरहः समभूत् उक्तं च- "जो जं | करे कम्मं विविहविवाहिं तस्स कम्मस्स । सो परिणामवसेणं लहह फलं भवसहस्सेसुं ॥ १ ॥ तस्मादुष्कर्म - च्छित्तये श्रावकयतिधर्म्ममनुपालयत । ततः सागरचन्द्रः सप्रियः सम्यक्त्वसहितं गृहिधर्म प्रतिपe ज्ञानिनमानत्य स्वधामागमत् पौरलोकश्च । तदनु स सदारः श्राद्धधर्म कियन्तं कालमनुपालय प्रत्रज्य च सर्वकर्माण्युच्छेद्य च शिव ·
SR No.090451
Book TitleSamyktvasaptati
Original Sutra AuthorSanghtilakacharya
Author
PublisherNaginbhai Ghelabhai Zaveri Mumbai
Publication Year1972
Total Pages490
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy