Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सापि तन्निशम्य सशङ्कापि धायमवलम्च्य स्माह-वत्स! तस्याः पापाया नामापि मा गृहाण, यदसौ त्वयि प्रस्थिते कृतकुलकलङ्का प्रादुर्भूतगी भवनान्निरवासि, तदनाकर्ण्यमाकर्ण्य हा हेति शब्दमुच्चैरुचरन् सागरो मुमूर्छ, परिकरकृतैः शिशिरोपचारैः कथमपि विगतमूझे हे कृशाङ्गि! यत्त्वया प्रोक्तेनापि मया पित्रोरने न निजागमनं न्यवेदि तदामरणं मे मनो दहिष्यतीति पुनः पुनर्विलपन्मातरमाह स्म-मातर्मन्नामाङ्कितं चिरपरिचितमप्यङ्गुलीयकं विलोक्य कथं I सा महासती निर्वासिता?, अथवा कुपतिस्तुष्टो रुष्टो वा मारयतीति विचिन्त्य हे वनदेवतास्तां मम प्राणप्रियां पितृश्वशुरकुलनिर्वासितां सनीव्रतभृतां रक्षत रक्षत, हा सा शून्येऽरण्ये गर्भमरालसाजी कथं भविष्यतीति प्रलपन् स पितृश्वशुरवर्ग रोदसीपूरं रोदयामास, ततः स गोत्रवृद्धर्भवभावनाखरूपैर्वाध्यमानोऽपि शुचं नामुचदचिन्तयच-यावन्मृगाइलेखां दृशा न पश्यामि तावत् वर्षसहस्रेणापि न गृहमागच्छामीति प्रतिज्ञामासूत्र्य मित्रेभ्योऽप्यनिवेद्य सद्यः सतूणीरं धनुः सहायीकृत्य सागरो नगरान्निरैयत् । ततो भुवं परिभ्रमन् प्रतिपदं पान्थान् पृच्छन् प्रति गिरिगुहां गवेषयन् प्रति तरून शोधयन् प्रति तटिनीतटकोटरं निरूपयन् हेडम्बवनखण्डमाप । तत्र हरिण्यादिजन्तुजातमालोक्य प्रलपति स्म-कुरङ्गि! सम प्रियायाः सुरङ्गां दृश्रियं कमल! मुखकमलकमलां कलापिन्! केशकलापलीलां अशोक! करचरणानुलिपल्लवच्छायां शशाङ्क ! कपोलपालिशोभां चापहृत्य। विषमविषमस्थानेयु यद्यपि यूयं निलीनाःस्थ तथाप्यधुना मम प्रिया(याः)प्रतिप्रतीकोपाहतां श्रियमर्पयत, नो चेत्कृ
REMEmmameer
Jain Education in
For Private &Personal use Only
linelibrary.org

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506