SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ सापि तन्निशम्य सशङ्कापि धायमवलम्च्य स्माह-वत्स! तस्याः पापाया नामापि मा गृहाण, यदसौ त्वयि प्रस्थिते कृतकुलकलङ्का प्रादुर्भूतगी भवनान्निरवासि, तदनाकर्ण्यमाकर्ण्य हा हेति शब्दमुच्चैरुचरन् सागरो मुमूर्छ, परिकरकृतैः शिशिरोपचारैः कथमपि विगतमूझे हे कृशाङ्गि! यत्त्वया प्रोक्तेनापि मया पित्रोरने न निजागमनं न्यवेदि तदामरणं मे मनो दहिष्यतीति पुनः पुनर्विलपन्मातरमाह स्म-मातर्मन्नामाङ्कितं चिरपरिचितमप्यङ्गुलीयकं विलोक्य कथं I सा महासती निर्वासिता?, अथवा कुपतिस्तुष्टो रुष्टो वा मारयतीति विचिन्त्य हे वनदेवतास्तां मम प्राणप्रियां पितृश्वशुरकुलनिर्वासितां सनीव्रतभृतां रक्षत रक्षत, हा सा शून्येऽरण्ये गर्भमरालसाजी कथं भविष्यतीति प्रलपन् स पितृश्वशुरवर्ग रोदसीपूरं रोदयामास, ततः स गोत्रवृद्धर्भवभावनाखरूपैर्वाध्यमानोऽपि शुचं नामुचदचिन्तयच-यावन्मृगाइलेखां दृशा न पश्यामि तावत् वर्षसहस्रेणापि न गृहमागच्छामीति प्रतिज्ञामासूत्र्य मित्रेभ्योऽप्यनिवेद्य सद्यः सतूणीरं धनुः सहायीकृत्य सागरो नगरान्निरैयत् । ततो भुवं परिभ्रमन् प्रतिपदं पान्थान् पृच्छन् प्रति गिरिगुहां गवेषयन् प्रति तरून शोधयन् प्रति तटिनीतटकोटरं निरूपयन् हेडम्बवनखण्डमाप । तत्र हरिण्यादिजन्तुजातमालोक्य प्रलपति स्म-कुरङ्गि! सम प्रियायाः सुरङ्गां दृश्रियं कमल! मुखकमलकमलां कलापिन्! केशकलापलीलां अशोक! करचरणानुलिपल्लवच्छायां शशाङ्क ! कपोलपालिशोभां चापहृत्य। विषमविषमस्थानेयु यद्यपि यूयं निलीनाःस्थ तथाप्यधुना मम प्रिया(याः)प्रतिप्रतीकोपाहतां श्रियमर्पयत, नो चेत्कृ REMEmmameer Jain Education in For Private &Personal use Only linelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy