Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
रसनायां दुष्टस्फोटिकोऽजनिष्ट, तत्पीडयाऽऽर्तध्यानपरो मृत्वा सारमेयीभूय तथैवाऽऽबाधया विपद्य वेश्यात्वमाप, तत्र च चन्दनधनिसुतसम्पर्केण जिनधर्मे निश्चलाऽभवत् , तदनुभावसातसौभाग्योदयाद्यं यं कटाक्षलक्षीचकार तं तं कन्दर्पसर्पो दशति स्म । अन्यदा सरस्तीरे विलसन्ती राजहंसमिथुनं मिथः क्रीडदवलोक्य कुतूहलेन हंसं गृहीत्वा कुङ्कमपङ्केनालिप्यामुञ्चत् , ततो हंस्या रथाङ्गभ्रान्त्या सकरुणमारसन्त्या विरहेण मूर्छन्त्यैकविंशतिघटिकां यावन्मरालेन सह न विलेसे, पुनस्तया विलासिन्या जातकरुणया जलेन जागुडं प्रक्षाल्य विशदीकृतो मरालो मराल्याऽऽदद्रे, तत्प्रदेशाद्विलासिन्यपि खवेश्म गत्वा सुचिरं धर्ममनुपाल्य समाधिना मृत्वा मायादोषेण सौधर्मेन्द्रस्याग्रमहिषीभूय च्युत्वा च शीलप्राप्तरेखा मृगाङ्कलेखा त्वमभूः । सोऽप्यनङ्गदेवः कन्दर्पद्विजकृतपापमनुमोद्य सुचिरं भवान् भ्रान्त्वा चित्रलेखात्वेनावतीर्णः, यत्तदा स कलङ्कितस्तेनाजीर्णेन पातकेन भवती कलङ्किता, यच्च तपखी ताडितः तेन दुरन्ता दुःखपरम्परा भवत्याऽनुभूता, अनुमतपातका च तव समदुःखा चित्रलेखाऽपि संवृत्ता, यच्चैकविंशतिघटिका हसो हंस्या सह व्ययोज्यत ते कविंशतिवर्षास्तवापि प्राणेश्वरेण सह विरहः समभूत् , उक्तं च-"जो जं करेइ कम्मं विविहविवाएहिं तस्स कम्मस्स । सो परिणामवसेणं लहइ फलं भवसहस्सेसुं॥१॥" तस्मादुष्कर्मच्छित्तये श्रावकयतिधर्ममनुपालयत । ततः सागरचन्द्रः सप्रियः सम्यक्त्वसहितं गृहिधर्म प्रतिपद्य ज्ञानिनमानत्य खधामागमत् पौरलोकश्च । तदनु स सदारः श्राद्धधर्म कियन्तं कालमनुपाल्य प्रव्रज्य च सर्वकर्माण्युच्छेद्य च शिव
Jain Educat
onal
For Private &Personal use Only
jainelibrary.org

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506