________________
रसनायां दुष्टस्फोटिकोऽजनिष्ट, तत्पीडयाऽऽर्तध्यानपरो मृत्वा सारमेयीभूय तथैवाऽऽबाधया विपद्य वेश्यात्वमाप, तत्र च चन्दनधनिसुतसम्पर्केण जिनधर्मे निश्चलाऽभवत् , तदनुभावसातसौभाग्योदयाद्यं यं कटाक्षलक्षीचकार तं तं कन्दर्पसर्पो दशति स्म । अन्यदा सरस्तीरे विलसन्ती राजहंसमिथुनं मिथः क्रीडदवलोक्य कुतूहलेन हंसं गृहीत्वा कुङ्कमपङ्केनालिप्यामुञ्चत् , ततो हंस्या रथाङ्गभ्रान्त्या सकरुणमारसन्त्या विरहेण मूर्छन्त्यैकविंशतिघटिकां यावन्मरालेन सह न विलेसे, पुनस्तया विलासिन्या जातकरुणया जलेन जागुडं प्रक्षाल्य विशदीकृतो मरालो मराल्याऽऽदद्रे, तत्प्रदेशाद्विलासिन्यपि खवेश्म गत्वा सुचिरं धर्ममनुपाल्य समाधिना मृत्वा मायादोषेण सौधर्मेन्द्रस्याग्रमहिषीभूय च्युत्वा च शीलप्राप्तरेखा मृगाङ्कलेखा त्वमभूः । सोऽप्यनङ्गदेवः कन्दर्पद्विजकृतपापमनुमोद्य सुचिरं भवान् भ्रान्त्वा चित्रलेखात्वेनावतीर्णः, यत्तदा स कलङ्कितस्तेनाजीर्णेन पातकेन भवती कलङ्किता, यच्च तपखी ताडितः तेन दुरन्ता दुःखपरम्परा भवत्याऽनुभूता, अनुमतपातका च तव समदुःखा चित्रलेखाऽपि संवृत्ता, यच्चैकविंशतिघटिका हसो हंस्या सह व्ययोज्यत ते कविंशतिवर्षास्तवापि प्राणेश्वरेण सह विरहः समभूत् , उक्तं च-"जो जं करेइ कम्मं विविहविवाएहिं तस्स कम्मस्स । सो परिणामवसेणं लहइ फलं भवसहस्सेसुं॥१॥" तस्मादुष्कर्मच्छित्तये श्रावकयतिधर्ममनुपालयत । ततः सागरचन्द्रः सप्रियः सम्यक्त्वसहितं गृहिधर्म प्रतिपद्य ज्ञानिनमानत्य खधामागमत् पौरलोकश्च । तदनु स सदारः श्राद्धधर्म कियन्तं कालमनुपाल्य प्रव्रज्य च सर्वकर्माण्युच्छेद्य च शिव
Jain Educat
onal
For Private &Personal use Only
jainelibrary.org