________________
सम्यक
॥२१२॥
देशनान्ते योजिताअलिपुटा मृगाङ्कलेखा पृच्छति स्म-भगवन् ! मया पुरा भवे किं दुष्कृतं कृतं ? येनानुभूता दुःख-13 स०टी० परम्परा, भगवानप्याह स्म-सिंहपुरे दर्पपराभूतसर्पः कन्दर्पनामा विप्रः कनकरत्नमयप्रासादे वसति स्म, बहुवि-11 धविद्यानिष्णातो राजसुतेनानङ्गदेवेन शश्वदाराध्यमानस्तृणाय जगन्मन्वानः सोऽनुदिनं तिष्ठति स्म। इतश्च तस्मिन्पुरे शतकीर्तिनामा घोरतपश्चरणचारी परित्राट् लोकप्रसिद्धो वसति स्म । पुरोहितस्तु तद्गौरवमसहमानो निष्कारणरोपणो राजपत्रानङ्गदेवमुखेन मित्रं कन्दर्पद्विजमाह स्म-भोः! शतकीर्ति कथमपि जनेष्वपवादमषीमलीनमातनु, सोऽपि गर्वनुग्रहराजाभियोगौ दुःखफलावविचारयस्तद्वचः खीचकार । अथ तत्र पत्तने पद्मदेवतनया कमलानाम्नी ललिता
श्रेष्ठितनये रक्तचित्ता प्रच्छन्नं कस्याप्यनिवेदितवृत्तान्ता क्वापि ययौ, दैववशात्तस्मिन्नेवाहनि मुधाजीवी शतकीहार्तिर्जनेभ्योऽनिवेद्य ग्रामान्तरमगमत् , तदा लोकेष्वितिवार्ता प्रससार-यत्कमला केनाप्यन्यायकारिणा नरेण सह ४
जगाम । तदा पुरोधो गुरूपरोधेन राजकुमारस्य चाग्रहेण कन्दो जनेषूदघोषयत्-नूनं कमलां शतकीर्तिरादायागमत् , यत्सा तमेवानिशमाराधयन्त्यासीत्, अतो द्वयोरप्येतयोर्विप्रलुब्धयोः सम्बन्धः सम्भाव्यते, ततोऽतत्त्वज्ञो जनस्तथैव तद्वचो मन्वानः सर्वधर्मबहिष्कृतोऽजनि । एकदा शतकीर्तिीमान्तरादागतस्तेन कन्दर्पण स्ववचनासत्यताभीरुणा लोकैः सह गत्वा यष्टिमुष्टयादिभिस्ताडितः । सोऽप्युपशान्तखान्तस्तत्सर्व सेहे । ततः सप्तमेऽह्नि कन्दर्पस्य | ॥२१२॥
१ सर्वेषु धर्मेषु विरक्तोऽजनि इति प्र.
Jan EducationRional
For Private Para
Oy
janeibrary.org