SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ सा सुयशसं प्रत्याह स्म-भो निष्कारणवत्सल परमबन्धो! तव कीर्त्तिरायुगान्तं धवलयतु, येन भवता सागरदत्तस्य निःशेष कुलमुद्धृतं, एवं ब्रुवाणा सा सागरेण खवामपार्श्वे सखीसमेतोपवेश्य भाषिता-प्रिये! मद्विरहविधुरया त्वया यहुःखमनुभूतं तन्मया त्वद्वियोगेन तिलतुषाग्रमात्रमपि न सेहे, एतच मम पुण्यमगण्यं यत्त्वं सुरेन्द्रदत्तयुता महक्पथमवतीर्णा । अथ कनकध्वजराजा कनकवाहुनाऽऽत्मरक्षकेण सहितः सागरचन्द्रागमनं निशम्य तत्रैव रथादाययौ, ततो राजा तं सजायं राजकुञ्जरमारोप्य कारितहट्टशोभे खपुरे प्रवेशयामास । मासमेकं सत्कारपुरस्सरमवस्थाप्य स्कन्धावारं च दत्त्वोजयिन्यां राज्ञा सागरचन्द्रः सपरिकरः प्रापितः । सुयशोमुखाद्विज्ञातवृत्तान्तेनावन्तिसेनभूपतिना सागरदत्तेन सह सम्मुखमेत्य सगौरवं पौरजनैः सस्पृहमवलोक्यमानः सागरचन्द्रः पुरं प्रावेश्यत, खगृहं च गत्वा क्षामितमृगाङ्कलेखां मातरमनंसीत् , मृगाङ्कलेखापि गुरुजनं प्रणिपत्य निजावासमाससाद । सागरचन्द्रेणापि सुतसहितेन विविधवित्तव्ययेन जिनभवनविधापनादिधमैरात्मा विध्वस्तपापपङ्कश्चके । सोऽन्यदा युगन्धरनामानं केवलिनमुद्याने समवसृतं श्रुत्वाऽगजदयितायुतस्तत्र गत्वा तं च नत्वोपाविशत् । राजादयोऽपि लोकास्तदा तदुपदिष्टां धर्मकथामिति शुश्रुवुः-"निजकर्मवशाजीवा अधनाः सधना जडाशया अजडाः । सुभगाश्च दुर्भगा अपि भवन्ति पूज्या अपूज्याश्च ॥१॥ मिथ्यात्वमविरतरतिः कषाययोगास्तथा प्रमादश्च । कर्मप्रकृतेर्बन्धनकारणमेतानि जायन्ते ॥२॥ शुभाशुभैः सदा जीवाः, कर्मभिः सुखदुःखिनः । भ्राम्यन्तेऽसारसंसारे, छिद्यन्तां तानि तद्बुधैः ॥ ३॥" JainEducation Aghal For Private & Personal Use Only A lainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy