SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ - - सम्य० ॥२१॥ - -- ESCORRECORRECRUSHBC सुरेन्द्रदत्तमादिदेश-वत्स ! किं संशेषे ?, श्रीमरुदेवानन्दनपदप्रसादादिह ते जननी खयमेव सम्प्राप्ता, सत्कुरु स० टी० | मातृचरणप्रणमनं, भद्रे मृगाङ्कलेखे! तवैष सुतः यस्त्वया यक्षायतने मुक्त आसीत् , स त्वद्भाग्येनात्र समेतः । ततः सुरेन्द्रदत्तः सरभसमुपसृत्य हर्षवशप्रसरन्नयनाम्बुकणैर्मुक्ताफलहारैरिव जननीपदपद्ममर्चयनमश्चक्रे, जनन्याऽपि स निजोत्सङ्गीकृत्य हगानन्दाथकणैः स्नपयन्येव शिरश्चम्बनपूर्वकं खरूपमप्रच्छि, सोऽपि खव्यतिकरं मात्रे निवेदयामास । अत्रान्तरे प्रमोदमेदुरोदरः सुयशास्तं ब्रूते स्म-वत्स! परमोत्सवेन वय॑से, एकाकी खप्रियां काननादिपु शोधयन्नधुना सागरचन्द्रोऽस्य पुरस्याऽऽसन्नवी वर्तते इति निशम्य त्रुध्यत्कञ्चकसन्धिबन्धनरेखा मृगाङ्कलेखा पुलकाङ्कितकाया समवृतत् , ततः सुरेन्द्रदत्तो जननीयुतः सुयशसमाह स्म-बद क मे स जनकः ? समेत इति ब्रुवाणः| सुरेन्द्रदत्तः पौरजनजननीयुतः पितृसम्मुखं प्रतस्थे, सुयशास्तु पूर्व गत्वा सागरचन्द्राय प्रियायाः सुतस्य चागमनं न्यवेदयत्, ततस्तत्रैव प्रियमेलकोद्यानप्रान्ते तेषां कृतविप्रयोगदुःखलीलावहेलो मेलोऽजनि । सुरेन्द्रदत्तस्तु तदैव निजजन्म|दिनं मन्वानः पितुः पादानवन्दत । सागरचन्द्रोऽपि तमात्मजं परिरभ्योत्सङ्गसङ्गिनमासूत्र्य पूगतरुतले उपाविशत् ।। मृगाङ्कलेखया च यमुनेव गङ्गया परमानन्दामृतरसपूरपूरितया चित्रलेखा समाश्लेषि । तदा तु तेषां यत्सुखमजनि IP॥२१॥ तत्कविगिरामप्यगोचरचारि । ततश्चित्रलेखामुखात्पतिचरित्रं श्रोत्रपटेनामृतमिव निपीय भर्तृपदपद्मागविलुठदेहा मृगाङ्कलेखा रुरोद-हा नाथ ! ममाधन्यायाः कृते कथं हुतभुक्प्रवेशाध्यवसायसाहसो मदुचितस्त्वयाऽकारि ?, ततः। - - -- Jamn Educatan Interational For Privale & Personal Use Only www.jainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy