Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 450
________________ सम्यक ॥२१२॥ देशनान्ते योजिताअलिपुटा मृगाङ्कलेखा पृच्छति स्म-भगवन् ! मया पुरा भवे किं दुष्कृतं कृतं ? येनानुभूता दुःख-13 स०टी० परम्परा, भगवानप्याह स्म-सिंहपुरे दर्पपराभूतसर्पः कन्दर्पनामा विप्रः कनकरत्नमयप्रासादे वसति स्म, बहुवि-11 धविद्यानिष्णातो राजसुतेनानङ्गदेवेन शश्वदाराध्यमानस्तृणाय जगन्मन्वानः सोऽनुदिनं तिष्ठति स्म। इतश्च तस्मिन्पुरे शतकीर्तिनामा घोरतपश्चरणचारी परित्राट् लोकप्रसिद्धो वसति स्म । पुरोहितस्तु तद्गौरवमसहमानो निष्कारणरोपणो राजपत्रानङ्गदेवमुखेन मित्रं कन्दर्पद्विजमाह स्म-भोः! शतकीर्ति कथमपि जनेष्वपवादमषीमलीनमातनु, सोऽपि गर्वनुग्रहराजाभियोगौ दुःखफलावविचारयस्तद्वचः खीचकार । अथ तत्र पत्तने पद्मदेवतनया कमलानाम्नी ललिता श्रेष्ठितनये रक्तचित्ता प्रच्छन्नं कस्याप्यनिवेदितवृत्तान्ता क्वापि ययौ, दैववशात्तस्मिन्नेवाहनि मुधाजीवी शतकीहार्तिर्जनेभ्योऽनिवेद्य ग्रामान्तरमगमत् , तदा लोकेष्वितिवार्ता प्रससार-यत्कमला केनाप्यन्यायकारिणा नरेण सह ४ जगाम । तदा पुरोधो गुरूपरोधेन राजकुमारस्य चाग्रहेण कन्दो जनेषूदघोषयत्-नूनं कमलां शतकीर्तिरादायागमत् , यत्सा तमेवानिशमाराधयन्त्यासीत्, अतो द्वयोरप्येतयोर्विप्रलुब्धयोः सम्बन्धः सम्भाव्यते, ततोऽतत्त्वज्ञो जनस्तथैव तद्वचो मन्वानः सर्वधर्मबहिष्कृतोऽजनि । एकदा शतकीर्तिीमान्तरादागतस्तेन कन्दर्पण स्ववचनासत्यताभीरुणा लोकैः सह गत्वा यष्टिमुष्टयादिभिस्ताडितः । सोऽप्युपशान्तखान्तस्तत्सर्व सेहे । ततः सप्तमेऽह्नि कन्दर्पस्य | ॥२१२॥ १ सर्वेषु धर्मेषु विरक्तोऽजनि इति प्र. Jan EducationRional For Private Para Oy janeibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506