Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
*SCRECAMERASAC-%%
ज्योतिःस्तोमैरमानैः प्रतिहतजगतीवर्तितेजखितेजःस्फूर्ती तत्पट्टपूर्वाचलविमललसन्मौलिमौलीयमानौ । श्रीमान् श्रीचन्द्रसूरिर्विमलशशिगुरुश्चाप्रमेयप्रभावी, जातौ श्रीराजहंसाविव भविकजनव्यूहबोधैकदक्षौ ॥ ७ ॥ आकाश्मीरमरीणचारुधिषणान् वादीन्द्रबृन्दारकान् , माद्यद्वादविधौ विजित्य जगति प्राप्तप्रतिष्ठोदयाः। सूरीन्द्रा गुणशेखराः स्मयहराः शृङ्गारचन्द्रक्षमाधीशाभ्यर्च्यपदाम्बुजाः समभवंस्तत्पदृशृङ्गारिणः ॥८॥ श्रीसङ्घतिलकाचार्यास्तत्पदाम्भोजरेजाणवः । सम्यक्त्वसप्ततेवृत्तिं, विदधुस्तत्त्वकौमुदीम् ॥ ९॥ अस्मच्छिष्यवरस्य सोमतिलकाचार्यानुजस्याधुना, श्रीदेवेन्द्र-1
मुनीश्वरस्य वचसा सम्यक्त्वसत्सप्ततेः । श्रीमद्विक्रमवत्सरे द्विनयनाम्भोधिक्षपाकृत(१४२२)प्रमे, श्रीसारखतपत्तने विरचिता दीपोत्सवे वृत्तिका ॥१०॥ सा सोमकलशवाचकवरानुजैरत्र विहितसाहाय्यैः । प्रथमाऽऽदर्श लिखितोपाध्यायः श्रीयशःकलशैः ॥ ११॥ मेधामान्ध्यात्प्रमादाच, यदवद्यमिहाजनि । तत्प्रसद्य महाविद्याः, शोधयन्तु विशारदाः ॥ १२॥ द्वादशात्मेव सवारैादशात्मेव बोधकृत् । इयं सम्यक्त्वतत्त्वानां, कौमुदी द्योततां भुवि ॥ १३॥ प्रश
स्तिश्लोकाः ॥ १४ ॥ प्रत्यक्षरं निरूप्यास्या, ग्रन्धमानं विनिश्चितम् । रुद्राब्धिमुनिसङ्ख्याकाः, श्लोकाः सचतुरवृक्षराः॥१॥ ग्रन्थानम् ७७११ अ०४॥ श्रेष्टि-देवचन्द्रलालभाइजैनपुस्तकोद्धारे ग्रन्थाङ्कः ३५॥
॥ इति श्रीसम्यक्त्वसप्ततिकावृत्तिः सम्पूर्णा ॥
Jam Education inc
ial
For Private & Personal use only
Snelibrary.org

Page Navigation
1 ... 499 500 501 502 503 504 505 506