Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 474
________________ सम्यक ॥२२४॥ जगत्सृजति?, मूर्तश्चेजगत्सृजति तदा कुलालवानि दरिदृश्यते?, अतोन मूर्तः कर्ता, अथामूर्तों जगत्सृजति तर्हि स.टी. तस्य शरीराद्यभावात्कथं जगत्सृष्टिसामर्थ्य मिति दूरापास्तैव जगत्कर्तृत्वकथा, अतः शुभाशुभान्येव कर्माणि जीवः करोतीति सिद्धं, कैर्हेतुभिरित्याह-'कसायत्ति' 'कषाययोगादिभिः' तत्र कषायाः-अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनरूपाः क्रोधमानमायालोभाः पोडश, योगाः-मनोवचनकायरूपाः पञ्चदश, उक्तं च-"सचं मोसं मीसं असचमोसं मणं तह वई य । उरलविउदाहारा मीसगकम्मइग इय जोगा ॥१॥" अत्र मकारोऽलाक्षणिकः, आदिशब्दान्नवनोकषायमिथ्यात्वपञ्चकद्वादशाविरतीनां परिग्रहः, एवंविधैर्बन्धहेतुभिरिति, अत्रार्थे दृष्टान्तमाह-'मिउत्ति' मृन्-मृत्तिका दण्डो-भ्रमणयष्टिः चक्रं प्रसिद्धं चीवरं-संमार्जनवस्त्रं, मृच दण्डश्च चक्रं च चीवरं च मृद्दण्डचक्रचीवराणि तेषां यः 'सामग्रीवशः' सहकारिकारणसामर्थ्य तस्मात् 'कुलाल इव' कुम्भकार इव, यथा कुलालो मृदादिभिर्घटमुत्पादयति तथा जीवः कषायादिभिः कर्म बध्नातीत्येवं ज्ञाततत्त्वः सम्यक्त्त्वस्थानतामवगाहत इति तृतीयं स्थानमिति गाथार्थः ॥ ६२॥ ___ अथ चतुर्थ भोक्तृनामकं स्थानमाहभुंजइ सयंकयाइं परकयभोगे अइप्पसंगो उ।अकयस्स नत्थि भोगो अन्नह मुक्खेऽविसो इजा ॥६३॥3॥२२४॥ व्याख्या-इह हि महामोहधूमध्वजधूमव्याकुलीकृताक्षा अक्षपादादय इति ब्रुवते, यद्-ईश्वरप्रेरणया सर्वः कोऽपि Jain Education anal For Privale & Personal Use Only A inelibrary.org

Loading...

Page Navigation
1 ... 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506