________________
सम्यक
॥२२४॥
जगत्सृजति?, मूर्तश्चेजगत्सृजति तदा कुलालवानि दरिदृश्यते?, अतोन मूर्तः कर्ता, अथामूर्तों जगत्सृजति तर्हि स.टी. तस्य शरीराद्यभावात्कथं जगत्सृष्टिसामर्थ्य मिति दूरापास्तैव जगत्कर्तृत्वकथा, अतः शुभाशुभान्येव कर्माणि जीवः करोतीति सिद्धं, कैर्हेतुभिरित्याह-'कसायत्ति' 'कषाययोगादिभिः' तत्र कषायाः-अनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यानसज्वलनरूपाः क्रोधमानमायालोभाः पोडश, योगाः-मनोवचनकायरूपाः पञ्चदश, उक्तं च-"सचं मोसं मीसं असचमोसं मणं तह वई य । उरलविउदाहारा मीसगकम्मइग इय जोगा ॥१॥" अत्र मकारोऽलाक्षणिकः, आदिशब्दान्नवनोकषायमिथ्यात्वपञ्चकद्वादशाविरतीनां परिग्रहः, एवंविधैर्बन्धहेतुभिरिति, अत्रार्थे दृष्टान्तमाह-'मिउत्ति' मृन्-मृत्तिका दण्डो-भ्रमणयष्टिः चक्रं प्रसिद्धं चीवरं-संमार्जनवस्त्रं, मृच दण्डश्च चक्रं च चीवरं च मृद्दण्डचक्रचीवराणि तेषां यः 'सामग्रीवशः' सहकारिकारणसामर्थ्य तस्मात् 'कुलाल इव' कुम्भकार इव, यथा कुलालो मृदादिभिर्घटमुत्पादयति तथा जीवः कषायादिभिः कर्म बध्नातीत्येवं ज्ञाततत्त्वः सम्यक्त्त्वस्थानतामवगाहत इति तृतीयं स्थानमिति गाथार्थः ॥ ६२॥ ___ अथ चतुर्थ भोक्तृनामकं स्थानमाहभुंजइ सयंकयाइं परकयभोगे अइप्पसंगो उ।अकयस्स नत्थि भोगो अन्नह मुक्खेऽविसो इजा ॥६३॥3॥२२४॥ व्याख्या-इह हि महामोहधूमध्वजधूमव्याकुलीकृताक्षा अक्षपादादय इति ब्रुवते, यद्-ईश्वरप्रेरणया सर्वः कोऽपि
Jain Education
anal
For Privale & Personal Use Only
A
inelibrary.org