SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ सुखदुःखादिकं खर्गनरकादिष्वनुभवति, यदूचुस्तधूथ्याः-“ईश्वरप्रेरितो गच्छेत्खग्र्ग या श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥१॥” इति, तन्निरासायाह-'भुञ्जइ'त्ति भुङ्क्ते अनुभवति स्वयम्-आत्मना कृतानि-विहितान्यर्थापत्त्या शुभाशुभानि कर्माणीति गम्यते, अत एवोक्तम्-"नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥१॥" यद्येवं तर्हि परकृतानि भुते न वेत्याह-'परकय'त्ति 'परकृतभोगे' अन्यकृतकर्मण्यन्यस्य भोक्तृत्वेऽतिप्रसङ्गः, तुः निश्चयार्थः, यद्यन्यकृतमन्यो भुङ्क्ते तदा देवदत्ते भुक्ते सर्वस्यापि जगतस्तृप्तिः स्यात् , तथा च न दृश्यते, अतः परकृतं कर्म प्राणी न भुते, किन्तु स्वकृतमेवानुभवति, यदागमः-"जीवे णं भन्ते ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे?, गोयमा! अत्तकडे दुक्खे नो परकडे दुक्खे नो तदुभयकडे दुक्खे" यद्येवमपि तबकृतस्य भोगो भवति न वेत्याह-'अकयस्स'त्ति अकृतस्य अनुपार्जितस्य 'नास्ति' न विद्यते भोगः, अकृतस्य वस्तुन एवाभावः शशशृङ्गवत् , अतः कथं तद्भोगः?, 'अन्यथा' तद्वैपरीसे सकलकर्मात्यन्तोच्छेदावा 'मोक्षे' मुक्तावपि स कृतभोगः स्यात्, तथा च न किमिति?, कर्मबन्धाभावात्तदनुभवकारिपौगलिकशरीराभावाच, इत्येवं ज्ञाततत्त्वस्य पुंसश्चतुर्थ सद्दर्शनस्थानं भवतीति गाथार्थः ॥ ६३ ॥ अथ पञ्चमं निर्वाणाख्यं स्थानमाहनिव्वाणमक्खयपयं निरुवमसुहसंगयं सिवं अरुयं । जियरागदोसमोहेहिं भासियंता धुवं अत्थि ॥४॥ Hamn Education Campional For Privale & Personal use only Y Hainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy