SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ सम्य० स० टी० ॥२२५॥ व्याख्या-'निर्वाणं' मोक्ष इति सम्बन्धः, तत्खरूपमाह-'अक्षयपदं' एकसिद्धापेक्षया साद्यनन्तं, सर्वसिद्धापे- क्षयाऽनाद्यनन्तं, सिद्धानां पतनाभावान्न पुनः संसारावतारः, एतावता-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् ।। गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥” इति वादिनः सौगता निरस्ताः अतो युक्तमक्षयपदमिति पदोपादानं, पुनः कीदृशम् ?-निरुपमम्-उपमानवर्जितम् , 'इक्षुक्षीरगुडादीनां,माधुर्यस्यान्तरं महदिति न्यायात्केवलिदानामपि वक्तुमशक्यं यत्सुखं-सातं तेन संगतं-मिलितमनन्तसुखात्मकत्वान्मोक्षस्येति । नन्वशरीरस्य नष्टकर्माष्टकस्य सिद्धस्य कुतः सुखसम्भवो भवति ? इति, अत्रोच्यते वाचकप्रणीतवचः-लोके चतुर्विहार्थेषु, सुखशब्दः प्रवर्त्तते। विषये वेदनाभावे,विपाके मोक्ष एव च॥१॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच, सुखमिष्टेन्द्रियार्थजम्। कर्मक्लेशविभेदाच,मोक्षे सुखमनुत्तमम् ॥३॥ अत एव 'शिवम्' अनुपद्रवं, पुनः किंभूतम् ?-"अरुज' शरीराभावादष्टाधिकशतरोगसंभवाभावाच गदरहितं, तच कथं ज्ञायत इत्याह'जियराग'त्ति 'जितरागद्वेषमोहैः' जितो रागो द्वेषो मोहश्च यैस्ते जितरागद्वेषमोहाः, यतः-"रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषहारणहेतिगम्यः। मोहः कुवृत्तागमदोषसाध्यो, नो यस्य देवः स स चैवर्महन् ॥१॥" तैः 'भाषितं' पूर्वापराविरुद्धतया कथितं, न विप्रतारकवचनप्रायं, तस्मात् 'ध्रुवं' निश्चितम् अस्ति मोक्षो भव्यजीवस्येत्यध्याहारः। एवं ज्ञाततत्त्वस्य पञ्चमं मोक्षः स्थानं स्यादिति गाथार्थः ॥ ६४ ॥ अथ षष्ठं मोक्षोपायाख्यं स्थानमाह *PESSACHS*** ॥२२५॥ Jan Educati onal For Private & Personal use only SEO Mainelibrary.org
SR No.600143
Book TitleSamykatva Saptati
Original Sutra AuthorN/A
AuthorLalitvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages506
LanguageSanskrit
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy