Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 473
________________ १९६AROSAROSAROKHARASRCASS TRANSCRECRLSCR बुवाणेनाचार्येण नित्यैकान्त पक्ष एव कक्षीकृतः अतस्तन्निरासायाह-'पुबत्ति' पूर्वकृतानुस्मरणात् मयेयं पूर्वजन्मनि । श्रीमदहत्प्रतिमा कारिताऽऽसीद् , अधुना तदवलोकनात् ,प्रत्यभिज्ञाने जातिस्मरणम् , अत एव तु तस्य 'पर्याया' भवा-14 द्भवान्तरगमनानि सादिसान्तकालवैशिष्टयेन 'अनित्या'नश्वराः,एतावताऽऽत्मा नित्यः,तत्पर्यायास्त्वनित्याः,नच कदा|चिद्रव्यं पर्यायवर्जितं स्यात् , उक्तं च-"द्रव्यं पर्यायवियुतं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा?, दृष्टा मानेन केन वा ? ॥१॥" अतो द्रव्यपर्यायाणां कथञ्चिद्भेदाभेदाङ्गीकारेण नित्यानित्योऽयमात्मा, उत्पादव्ययध्रौव्ययुक्तत्वात् , यथा-"घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वलम् । शोकप्रमोदमाध्यस्थ्यं जनो याति सहेतुकम् ॥१॥" एवं निश्चलीकृते खान्ते सम्यक्त्वस्थानता ज्ञायत इति द्वितीय स्थानमिति गाथार्थः ॥ ६१॥ __ अथ तृतीयं काख्यं स्थानमाहकत्ता सुहासुहाणं कम्माण कसायजोयमाईहिं । मिउदंडचक्कचीवरसामग्गिवसा कुलालुब्व ॥६२ ॥ | व्याख्या-अयमात्मा 'कर्ता' करणशीलः, केषाम् ?-'शुभाशुभानां कर्मणां' ज्ञानावरणप्रभृतीनामष्टानां, न तु जगदादीनाम् , इह हि केचनापि मिथ्यात्वान्वितविलोचनास्त्रिलोचनकृतं विश्वं मन्यन्ते, तथाहि-उर्वीपर्वततर्वा सर्व सकर्तृकं, कार्यत्वात् , यद्यत्कार्य तत्तत्सकर्तृकं, यथा घटः, तथा चेदं, तस्मादीश्वरकर्तृकमित्येतद्वचो विचारचतुरचेतोभिर्विचार्यमाणं वन्ध्यास्तनन्धयलीलामाकलयति, तथाऽप्यभ्युपगम्य ब्रूमः स भवदभिमतः कर्ता मूर्तोऽमूर्तो वा ECCLOGASCAR lain Educati o nal For Private & Personal Use Only Ambibrary.org

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506