Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 481
________________ घटाकोटिसंटङ्कमाटीकते, भूम्यादिमहद्भूतचतुष्टयाद्यतिरिक्तं परलोकादिभवभ्रमणप्रवणमन्यजीवादिकं वस्तु न दरीदृश्यते, असत्त्वादेव, तथाहि-नास्ति जीवः प्रत्यक्षप्रमाणाविषयत्वाद्योमारविन्दवत् , यच सद्रूपमस्ति न तत्प्रत्यक्षप्रमाणातीतं, यथा चत्वारि भूतानीत्युक्त्वा स्थिते भूपरिवृढे भगवन्तोऽभाषन्त-राजन्नयमात्मा किं भवतोऽध्यक्षागोचर उत सर्वेषां ?, तत्र चेत्तवाप्रत्यक्षत्वान्नास्ति तदा विप्रकृष्टदेशकालखभावानां भूम्नामुर्वीपर्वततर्वादीनामप्यसत्त्वप्रसङ्गः, भवतोऽप्येषामैन्द्रियकज्ञानेनानवलोकनात्, यदि च सकललोकावलोकनातीतत्वान्नास्तीति निगद्यते, तदपि सावा, जगजनप्रत्यक्षाणां तेषां भवदनध्यक्षत्वात्, उत तेऽपि भवदध्यक्षास्तदा भवत्येव जगजीवप्रसङ्गः, किञ्च-चैतन्यमिदं चतुर्भूतानां प्रकृतिरुत कार्य?, न तावत्प्रकृतिः, तेषां चैतन्यवन्ध्यत्वात् , न चापि कार्य, भूतानुरूपताऽसत्त्वात् , अ थ सर्वभूतसंयोगाच्चैतन्यमुत्पद्यते, यथा मद्याङ्गेभ्यो मदशक्तिः, तदप्यपटु, यस्य वस्तुनो यत्राभावस्तत्र तस्योत्पादाभाव Pएव, यथा धूलीकणालीभ्यस्तैलं, मद्याङ्गेषु च सर्वेषु प्रत्येकं मदशक्तिसद्भावात् , सर्वजगदनुभवसिद्धं चेदं चैतन्यं यस्य कस्यापि खभावः स भूतेभ्यो भिन्न एव परभवगामी जीवः, द्रव्यपर्यायभेदैश्च नित्यानित्यः खकर्मफलोपभोक्ता पुण्यपापक्षयान्मोक्षगामीति स्थितं । तओ नरिंदेण पञ्चुत्तरदाणाखमेण भणियं-भयवं ! जइ परभवगामी एस जीवो जायइ ता मज्झ पिया बहुविहजीवघायणनिबद्धमई तुम्हाणं मए अवस्सं नरए गओ भविस्सइ, ता एस कहमिह आगंतूण मं पावाओ न निवारेइ ?, गुरूणाविवुत्तं-जहा कोऽवि महाअन्नायकारी निविडनियडेहिं निगडिऊण कारागारंतरे MARCASRANASA Jain Education a l For Privale & Personal Use Only Nainelibrary.org

Loading...

Page Navigation
1 ... 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506