Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सुखदुःखादिकं खर्गनरकादिष्वनुभवति, यदूचुस्तधूथ्याः-“ईश्वरप्रेरितो गच्छेत्खग्र्ग या श्वभ्रमेव वा । अन्यो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ॥१॥” इति, तन्निरासायाह-'भुञ्जइ'त्ति भुङ्क्ते अनुभवति स्वयम्-आत्मना कृतानि-विहितान्यर्थापत्त्या शुभाशुभानि कर्माणीति गम्यते, अत एवोक्तम्-"नाभुक्तं क्षीयते कर्म, कल्पकोटिशतैरपि । अवश्यमेव भोक्तव्यं, कृतं कर्म शुभाशुभम् ॥१॥" यद्येवं तर्हि परकृतानि भुते न वेत्याह-'परकय'त्ति 'परकृतभोगे' अन्यकृतकर्मण्यन्यस्य भोक्तृत्वेऽतिप्रसङ्गः, तुः निश्चयार्थः, यद्यन्यकृतमन्यो भुङ्क्ते तदा देवदत्ते भुक्ते सर्वस्यापि जगतस्तृप्तिः स्यात् , तथा च न दृश्यते, अतः परकृतं कर्म प्राणी न भुते, किन्तु स्वकृतमेवानुभवति, यदागमः-"जीवे णं भन्ते ! किं अत्तकडे दुक्खे परकडे दुक्खे तदुभयकडे दुक्खे?, गोयमा! अत्तकडे दुक्खे नो परकडे दुक्खे नो तदुभयकडे दुक्खे" यद्येवमपि तबकृतस्य भोगो भवति न वेत्याह-'अकयस्स'त्ति अकृतस्य अनुपार्जितस्य 'नास्ति' न विद्यते भोगः, अकृतस्य वस्तुन एवाभावः शशशृङ्गवत् , अतः कथं तद्भोगः?, 'अन्यथा' तद्वैपरीसे सकलकर्मात्यन्तोच्छेदावा 'मोक्षे' मुक्तावपि स कृतभोगः स्यात्, तथा च न किमिति?, कर्मबन्धाभावात्तदनुभवकारिपौगलिकशरीराभावाच, इत्येवं ज्ञाततत्त्वस्य पुंसश्चतुर्थ सद्दर्शनस्थानं भवतीति गाथार्थः ॥ ६३ ॥ अथ पञ्चमं निर्वाणाख्यं स्थानमाहनिव्वाणमक्खयपयं निरुवमसुहसंगयं सिवं अरुयं । जियरागदोसमोहेहिं भासियंता धुवं अत्थि ॥४॥
Hamn Education
Campional
For Privale & Personal use only
Y
Hainelibrary.org

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506