Book Title: Samykatva Saptati
Author(s): Lalitvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
सम्य०
स० टी०
॥२२५॥
व्याख्या-'निर्वाणं' मोक्ष इति सम्बन्धः, तत्खरूपमाह-'अक्षयपदं' एकसिद्धापेक्षया साद्यनन्तं, सर्वसिद्धापे- क्षयाऽनाद्यनन्तं, सिद्धानां पतनाभावान्न पुनः संसारावतारः, एतावता-"ज्ञानिनो धर्मतीर्थस्य, कर्तारः परमं पदम् ।। गत्वाऽऽगच्छन्ति भूयोऽपि, भवं तीर्थनिकारतः ॥१॥” इति वादिनः सौगता निरस्ताः अतो युक्तमक्षयपदमिति
पदोपादानं, पुनः कीदृशम् ?-निरुपमम्-उपमानवर्जितम् , 'इक्षुक्षीरगुडादीनां,माधुर्यस्यान्तरं महदिति न्यायात्केवलिदानामपि वक्तुमशक्यं यत्सुखं-सातं तेन संगतं-मिलितमनन्तसुखात्मकत्वान्मोक्षस्येति । नन्वशरीरस्य नष्टकर्माष्टकस्य सिद्धस्य कुतः सुखसम्भवो भवति ? इति, अत्रोच्यते वाचकप्रणीतवचः-लोके चतुर्विहार्थेषु, सुखशब्दः प्रवर्त्तते। विषये वेदनाभावे,विपाके मोक्ष एव च॥१॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥२॥ पुण्यकर्मविपाकाच, सुखमिष्टेन्द्रियार्थजम्। कर्मक्लेशविभेदाच,मोक्षे सुखमनुत्तमम् ॥३॥ अत एव 'शिवम्' अनुपद्रवं, पुनः किंभूतम् ?-"अरुज' शरीराभावादष्टाधिकशतरोगसंभवाभावाच गदरहितं, तच कथं ज्ञायत इत्याह'जियराग'त्ति 'जितरागद्वेषमोहैः' जितो रागो द्वेषो मोहश्च यैस्ते जितरागद्वेषमोहाः, यतः-"रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषहारणहेतिगम्यः। मोहः कुवृत्तागमदोषसाध्यो, नो यस्य देवः स स चैवर्महन् ॥१॥" तैः 'भाषितं' पूर्वापराविरुद्धतया कथितं, न विप्रतारकवचनप्रायं, तस्मात् 'ध्रुवं' निश्चितम् अस्ति मोक्षो भव्यजीवस्येत्यध्याहारः। एवं ज्ञाततत्त्वस्य पञ्चमं मोक्षः स्थानं स्यादिति गाथार्थः ॥ ६४ ॥ अथ षष्ठं मोक्षोपायाख्यं स्थानमाह
*PESSACHS***
॥२२५॥
Jan Educati
onal
For Private & Personal use only
SEO
Mainelibrary.org

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506