Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्वकौमुदी
पञ्चमः प्रस्ताव
॥१६॥
आहूय बहुमानेन बुद्धदासं सपुत्रकम् । तत्कुटुम्बं पुरस्कृत्य शिक्षामेवं प्रदत्तवान् ॥ १४८ ॥ पृथ्व्यां पुण्यवता श्रेष्ठा गरिष्ठा न्यायशालिनाम् । विश्वविख्यातिभाजश्च धर्ममार्गधुरन्धराः ॥१४६ ॥ अहंदुक्तं समासाद्य धर्म शमैकसेवधिम् । भवन्तो यदि मोक्ष्यन्ति तदाऽन्येषां तु का गतिः ॥ १५ ॥ नीचा अपि न मुञ्चन्ति गृहीतं गुरुसाक्षिकम् । किं पुनस्तत्त्वनिष्णाताः सद्वतं सत्त्वशालिनः ॥ १५१॥ यतःप्राणान्तेऽपि न मोक्तव्यं गुरुसाक्षिकृतं व्रतम् । व्रतभङ्गोऽतिदुःखाय प्राणा जन्मनि जन्मनि ॥१॥ प्रागङ्गीकृत्य सद्धम कुसङ्गन त्यजन्ति ये । लभन्ते ते महादुःखं भ्रमन्तो भवसागरे ॥ १५२ ॥ आदिष्टां श्रेष्ठिना धर्मशिक्षामेवं कुशिष्यवत् । विधृय बुद्धदासोऽगानिजं स्थानं दुरायतिः ॥ १५३॥ कृष्णपाक्षिकतां तस्य विचार्य श्रावकाग्रणीः । तनूजा कोमलैर्वाक्यः सन्तोष्य सदनं ययौ ॥ १५४ ॥ तन्वत्या आहेतं धर्म नित्यं पद्यश्रियस्ततः। मिथ्यादृशो वितेनुस्ते हठादप्यन्तरायकम् ॥ १५५ ॥ ते निन्दन्त्यवहीलन्ति हसन्ति च परस्परम् । तथाऽपि दृढधमत्वात्पनश्रीन प्रमाद्यति ॥ १५६ ॥ पद्मसङ्घोऽन्यदाऽऽगत्य गुरुः सौगतसूरिराट् । बहुशिष्यान्वितः पद्मश्रियः शिक्षा ददौ यथा ॥१५७ ॥ चिन्तामणियथा भद्रे ! मणिषु प्रथमः स्मृतः । तथा धर्मेषु सर्वेषु धर्मः सौगतसङ्गतः ॥ १५८ ॥ चमत्कारशतस्थानं लोकद्वयसुखावहः । धर्मो भगवताऽऽख्यायि सुगतेन हितैषिणा ॥ १५६ ।। तथा च
मृद्धी शय्या प्रातरुत्थाय पेया मध्ये भक्तं पान चापराहे ।
EXXXXXXXXXXXXXXXXXXXXXXXX
॥१६॥

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220