Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्वकौमुदी
प्रस्तावः
॥१६॥
RRRRRRRXXXXXXXXXXXXXXXXXXXXXX
विधिना शास्त्रपूतेन प्रत्यलाभि स संयमी । सत्पात्रेऽवसरे प्राप्ते किं विवेकी प्रमाद्यति ॥११५ ॥ युग्मम् ॥ तदानमहिमा तत्र विदधे त्रिदशवजैः। समग्रजनतानन्दी वसुगन्धाम्बुवर्षिभिः॥ ११६॥ माहात्म्येन समं श्रेष्ठी हर्षोत्कर्षमवाप सः । अर्जयामास साम्राज्यं तथा षटखण्डभूभुजः॥ ११७ ॥ यतः
विधिना पुण्डरीकाद्रौ यात्रा पात्राश्रिताः श्रियः।
क्रियाः सज्ज्ञानसम्यक्त्वाः प्राप्यन्ते पुण्ययोगतः ॥१॥ योगीव परमात्मानं नियोगीव परं पदम् । अविन्दत हयं प्राप्य तदानन्दभरं नृपः ॥ ११८॥ ततो हयानुभावेन भूभृतो राज्यसंपदि । सप्तस्वपि तदा वृद्धिरङ्गषु समभूदहो ! ॥ ११६ ।। अन्यदा जययात्राय व्रजता तेन भूभुजा । स वाजी बालमित्राय वृषभश्रेष्ठिनेऽर्पितः॥१२०॥ रक्षणीयस्त्वया यत्नाद्राज्यसर्वस्वजीवितम् । स्वात्मेवायं नभोगामी वेश्मनीति न्यगादि च ।। १२१॥ रङ्गात्तुरङ्गमं श्रेष्ठी नृपादेशवशंवदः। आनीय पालयामास जिनधर्ममिवालये ॥ १२२ ॥ मनसोऽन्तर्दधौ चिन्तामेवं वृषभसेनकः । प्राप्तः पुण्योदयादेष व्योमगामी यो मया ॥१२३ ॥ तत्पुण्यं क्रियते किश्चिदस्य साहाय्यतोऽधुना । समयं प्राप्य यो धर्म कुरुतेऽसौ विवेकवान् ॥ १२४ ॥ यतः
यावत्स्वच्छमिदं शरीरमरुजं यावच्च दूरे जरा यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
॥१६॥

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220