Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 217
________________ सम्यक्त्वकौमुदी सप्तमः प्रस्ताव: ॥२१३॥ EXXXXXXXXXXXXXXXXXXXXXXXXX प्रभावादस्य जायन्ते देवाः सेवाभृतो नृणाम् । स्निह्यन्ते जगतः पूज्याः संपदस्तु सदोदयाः॥ १४४॥ निशम्यैवं विभुः पृथ्व्यात्रिखण्डपरमेश्वरः । उद्वहन प्राज्यसाम्राज्यं स्वाराज्यमिव वासवः ॥ १४५ ॥ दत्तप्रसादैः प्रासादैः षट्खण्डार्धमहीमिमाम् । अखण्डां मण्डयामास जिनेन्द्रप्रतिमाद्भुतैः ॥ १४६ ॥ अहंदासकथामिमा निरुपमा धर्मानुभावश्रिया श्रुत्वा श्राद्धजना घनातिमथनीं नानोपदेशामृतैः। सम्यक्त्वे विविधव्रतालिसफलीकारेकसारात्मनि स्वान्तं स्वं रचयन्तु निश्चलतमं हर्षप्रकर्षप्रदे ॥ १४७ ।। ॥ इति श्रीसम्यक्त्वकौमुद्यां श्रीतपागच्छनायकश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यः पण्डितजिनहर्षगणिभिः कृतायां सप्तमः प्रस्तावः ।। ७ ।। ग्रन्थाग्रम् ।। १७६ ॥ ॥ अथ प्रशस्तिः ॥ तपोगच्छेऽभवद्भूम्ना महिम्ना विश्वविश्रुतः । जगचन्द्रगुरुः श्रीमान् सम्यग्ज्ञानक्रियानिधिः ॥ १॥ . श्रीदेवेन्द्रगुरुस्तस्य पट्टेऽभूत्प्रकटप्रभः । यद्देशनासमाजेऽभूद्वस्तुपालः सभापतिः ॥ २ ॥ तच्छिष्याः क्षितिविख्याता विद्यानन्दमुनीश्वराः । अजायन्त जगत्पूज्या ज्यायोज्ञानक्रियागुणैः ॥ ३ ॥ तत्पट्टोदयभास्वानासीनिस्सीमतेजस राशिः। श्रीधर्मघोषगणभृत सच्चक्रानन्दिगोविभवः ॥ ४ ॥ ततश्चश्रीसोमप्रभ इत्यासीत्सूरिः सीमा महात्मनाम् । व्यधाद्विगौतमं वीरशासनं यो युगोत्तमः । ५॥ ततः शतक्रतुस्तुत्यः श्रीसोमतिलकाहयः। सूरिभू रियशा जज्ञे विशेषु प्रथितो धुरि ॥ ६ ॥ KXXXXXXXXXXXXXXXXXXXXXXXXX ॥२१३॥

Loading...

Page Navigation
1 ... 215 216 217 218 219 220