Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 204
________________ सम्यक्त्वकौमुदी सप्तमः प्रस्ताव: ॥२०॥ नृपमन्त्रिमुखाः सर्वे यथास्थानं ततो ययुः । श्रेष्ठयप्या समाप्याथ निद्रासुखमशिश्रियत् ॥ २२२ ॥ इति वृषभचरित्रं पुण्यपीयूषसत्रं श्रवणविषयमेतद्भव्यलोका विधाय । सकलभुवनलक्ष्मीभूषणे बोधिरत्ने रमयत निजचेतः पूरिताऽनेकहर्षे ॥ २२३ ॥ इति श्रीसम्यक्त्वकौमुद्यां श्रीतपागच्छनायकश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यः पण्डितजिनहर्षगणिभिः कृतायां षष्ठः प्रस्तावः ॥ ६॥ ग्रन्थानम् २४८ ।। अक्षर २६ ॥ ॥ अथ सप्तमः प्रस्तावः॥ XXXXXXXXXXXXXXXXXXXXXXXXX अथारुणोदये जाते प्रबुद्धो मगधाधिपः। परमेष्ठिपदध्यानं दध्यौ व्याधृतकल्मषः॥१॥ विधाय विधिना देहविशुद्धिं द्विविधामसौ। विदधे श्रीजिनेन्द्राणां पूजां सर्वाघघातिनीम् ॥ २॥ यतःप्रातर्देवार्चनं पात्रदानं दीनानुकम्पनम् । पित्रोभक्तिः कृपालुत्वं प्राज्यपुण्याय पञ्चकम् ॥१॥ आवश्यकानि देवार्चा परमेष्ठिपदस्मृतिः । प्रातःकृत्यानि गीतानि श्रेयोऽयं देहिनां बुधैः॥२॥ सचिवेन समं श्रीमान् श्रेणिकः प्रीणितप्रजः । शक्रावतारचैत्यस्था मूर्तीनत्वा जिनेशितुः ॥३॥ आत्मेव सुकृती देहे श्रेष्ठिगेहे समागमत् । मितसारपरीवारः प्रस्फुरत्पृथुलक्षणे ॥ ४ ॥ युग्मम् ॥ विधाय विधिना सर्वा धाःप्राभातिकीः क्रियाः। अहंदासोऽपि भूपालं कल्पसालमिवाङ्गिनम् ॥ ५ ॥ KXXXXXXXXXXXXXXXXXXXXXXXX ॥२०॥

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220