SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी सप्तमः प्रस्ताव: ॥२०॥ नृपमन्त्रिमुखाः सर्वे यथास्थानं ततो ययुः । श्रेष्ठयप्या समाप्याथ निद्रासुखमशिश्रियत् ॥ २२२ ॥ इति वृषभचरित्रं पुण्यपीयूषसत्रं श्रवणविषयमेतद्भव्यलोका विधाय । सकलभुवनलक्ष्मीभूषणे बोधिरत्ने रमयत निजचेतः पूरिताऽनेकहर्षे ॥ २२३ ॥ इति श्रीसम्यक्त्वकौमुद्यां श्रीतपागच्छनायकश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यः पण्डितजिनहर्षगणिभिः कृतायां षष्ठः प्रस्तावः ॥ ६॥ ग्रन्थानम् २४८ ।। अक्षर २६ ॥ ॥ अथ सप्तमः प्रस्तावः॥ XXXXXXXXXXXXXXXXXXXXXXXXX अथारुणोदये जाते प्रबुद्धो मगधाधिपः। परमेष्ठिपदध्यानं दध्यौ व्याधृतकल्मषः॥१॥ विधाय विधिना देहविशुद्धिं द्विविधामसौ। विदधे श्रीजिनेन्द्राणां पूजां सर्वाघघातिनीम् ॥ २॥ यतःप्रातर्देवार्चनं पात्रदानं दीनानुकम्पनम् । पित्रोभक्तिः कृपालुत्वं प्राज्यपुण्याय पञ्चकम् ॥१॥ आवश्यकानि देवार्चा परमेष्ठिपदस्मृतिः । प्रातःकृत्यानि गीतानि श्रेयोऽयं देहिनां बुधैः॥२॥ सचिवेन समं श्रीमान् श्रेणिकः प्रीणितप्रजः । शक्रावतारचैत्यस्था मूर्तीनत्वा जिनेशितुः ॥३॥ आत्मेव सुकृती देहे श्रेष्ठिगेहे समागमत् । मितसारपरीवारः प्रस्फुरत्पृथुलक्षणे ॥ ४ ॥ युग्मम् ॥ विधाय विधिना सर्वा धाःप्राभातिकीः क्रियाः। अहंदासोऽपि भूपालं कल्पसालमिवाङ्गिनम् ॥ ५ ॥ KXXXXXXXXXXXXXXXXXXXXXXXX ॥२०॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy