SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥२०१॥ ********** स्वगृहाङ्गणमायातं विलोक्य सचिवान्वितम् । प्रतिपत्तिं तथा चक्र े यथा वक्तुं न शक्यते ॥ ६ ॥ युग्मम् ॥ यतःप्रसन्ना दृग् मनः शुद्धं ललिता वाग् नतं शिरः । सहजार्थिष्वियं पूजा विनाऽपि विभवं सताम् ॥ १ ॥ चैत्ये सहस्रकूटाख्ये स्वपित्रैव विनिर्मिते । चन्द्राश्मप्रतिमा जैनीर्नमस्कार्य स कार्यवित् ॥ ७ ॥ तुङ्ग सिंहासने मे निवेश्य च नरेश्वरम् । पुरोऽथ प्राञ्जलीभूय विज्ञप्तिं व्यतनोदिति ॥ ८ ॥ देवाद्य सेवकण्यां लेभे मौलिपदं मया । यत्स्वयं गृहमागत्य त्वया दृग्गोचरीकृतः ॥ ६ ॥ लभ्यन्ते सम्पदः सर्वाः पर्वावलिविभूषिताः । न प्राप्यन्ते परं नेतुः प्रसादमधुरा दृशः ॥ १० ॥ यतः - देव ! सेवकजनः स गण्यते पुण्यवत्सु गुणवत्सु चाग्रणीः । यः प्रसन्नवदनाम्बुजन्मना स्वामिना मधुरमीक्ष्यते दृशा ॥ १ ॥ सप्रसादवदनस्य भूपतेर्यत्र यत्र विलसन्ति दृष्टयः । तत्र तत्र शुचिता कुलीनता दक्षता सुभगता च वल्गति ॥ २ ॥ सुधावृष्टिरभूदद्य देव ! सेवकवेश्मनि । यदेतत्सांप्रतं पुण्यं पुनीते ते पदाम्बुजम् ॥ ११ ॥ यतः - I अमृतं शिशिरे वह्निरमृतं क्षीरभोजनम् । अमृतं राजसन्मानममृतं प्रियदर्शनम् ॥ १ ॥ तत्प्रसीद प्रभो ! ब्रूहि निजागमप्रयोजनम् । न हि स्वामिन्! जगत्पूज्यो भवान्निर्हेतुतां श्रयेत् ॥ १२ ॥ *************** सप्तमः प्रस्तावः ॥२०१॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy