Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्व
कौमुदी
॥२१०॥
****
समाधिना शुभध्यानी त्रिज्ञानी निर्ममाग्रणीः । सर्वार्थसिद्धे देवोऽभूद्विमाने सततोदितः ॥ ११२ ॥ चारित्ररत्नमाहात्म्यात् श्रेष्ठिनो दयिता अपि । वैमानिकसुरीभावं प्रापुस्तापोज्झिताशयाः ॥ ११३ ॥ अर्हद्द सुरश्च्युत्वा ततः स्वदयितान्वितः । श्लाघ्यां राज्यश्रियं प्राप्य श्रविष्यति शिवश्रियम् ॥ ११४ ॥ सम्यक्त्वव्रतमाहात्म्यसुवर्णनिकषोपलः । अर्हद्दासगृहस्थस्य सकलत्रस्य भूपते ! ॥ ११५ ॥ सद्दर्शनस्थिरीकारहेतवे भवतोऽखिलः । दृष्टान्तोऽयं मयाऽऽख्यायि विख्यातः क्षितिमण्डले ।। ११६ ॥
प्रतिपतिः सम्यक्त्वकौमुदीम् । संमदी कौमुदीशाभं कृत्वा हन्मोहमुक्तितः ॥ ११७ ॥ सदर्शन महारत्नं गुरुरत्नाकरात्ततः । आदत्ते स्ववशीकारकारणं निवृतिश्रियः ॥ ११८ ॥ युग्मम् ॥ सूर्यसुहस्त्येवं तस्मै सद्दृष्टये तदा । सम्यषतत्त्वविशुद्धयर्थं विदधे धर्मदेशनाम् ॥ ११६ ॥ भवा जन्तोरनन्ताः स्युनृ भवः श्लाध्यते परम् । सुखत्रियो यदर्ज्यन्तेऽमुना स्वर्गापवर्गयोः ॥ १२० ॥ एष एव पुमर्थानां हेतुत्वेन महात्मतः । तैर्विना तेन किं कार्यं गणनापूरणात्मना १ ॥ १२१ ॥
सवर्ण्यः पुरुषो यस्मिन् पुमर्थाः स्युरबाधया । शाखी स एव सेव्यो यः पत्रपुष्पफलादियुग् ॥ १२२ ॥ धर्मार्थकाममोक्षास्ते चत्वारः प्रथिताः सताम् । किंत्वर्थकाममोक्षाणां निदानं धर्म एव हि ॥ १२३ ॥ तस्मात्सर्वपुमर्थानां धर्मो बीजमिति ध्रुवम् । मन्वानैरमलज्ञानैर्जनैः सेव्योऽयमादरात् ॥ १२४ ॥ यतःपुमर्थसंसाधनमन्तरेण, पशोरिवायुर्विफलं नराणाम् ।
*****
**************
सप्तम : प्रस्ताव:
॥२१० ॥

Page Navigation
1 ... 212 213 214 215 216 217 218 219 220