Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 208
________________ सम्यक्त्वकौमुदी 1120811 *********** विषयेभ्यो विरक्तं मे मानसं मानवेश्वर ! सांप्रतं संयमारामं सेवितुं तु समीहते ॥ ३४ ॥ दुर्लभं जन्मकोट्याऽपि ज्ञात्वा जैनेश्वरं वचः । सर्वदुःखहरं यस्तु भुङ्क्ते वैषयिकं सुखम् || ३५ ॥ प्रहाय हा ! सुधापाकं गर्ताशूकरवद्ध्रुवम् । तत्त्वातच्चविमूढात्मा रमतेऽसौ मलवजे || ३६ || विज्ञानस्य फलं राजन्नेतदेव सतां मतम् । दन्दश्यंते न यद् ज्ञाततत्त्वो विषयपन्नगैः ॥ ३७ ॥ ज्ञानवानपि पृथ्वीश ! विषयैर्वाध्यते यदि । क्लिष्टत्वं कर्मणां ज्ञेयं तस्यातीव तदा बुधैः ॥ ३८ ॥ ततो भूपाल ! चारित्रयानपात्रमवाप्य द्राग् । पारं प्राप्तुं भवाम्भोधेरीहेऽहं जिनधर्मवित् ॥ ३६ ॥ अत्रान्तरे समायासीदसीममहिमार्णवः । पञ्चमो गणभृत्तत्र श्रीसुधर्मा मुनीश्वरः ॥ ४० ॥ तदागमनवृत्तान्तसुधासारेण निवृतः । समं श्रेष्ठयादिभिर्लेभे प्रमोदं नृपतिः परम् ॥ ४१ ॥ ततः श्रेष्ठिसखः श्रीमान् श्रेणिकः श्रीगणाधिपान् । नमस्कतु जवादागान्न कार्ये हि बुधोऽलसः ॥ ४२ ॥ प्रपञ्चितप्रणामाय पञ्चाङ्गनतिपूर्वकम् । सश्रेष्ठिने नरेन्द्राय ददुस्ते धर्मदेशनाम् || ४३ ॥ तद्यथासदर्शनज्ञान चरित्ररूपो मार्गों जिनेन्द्रैर्जगदे विमुक्तेः । मिथ्यात्वमोहोपशमक्षयाभ्यामाद्यं भवेत्तत्र च पञ्चभेदम् ॥ ४४ ॥ तत्रोपशमिकं राजन् ! क्षायोपशमिकं परम् । क्षायिकं मिश्रमाम्नातं जिनैः सास्वादनं तथा ॥ ४५ ॥ मतिश्रुतावधिज्ञानमनःपर्याय केवलम् । ज्ञानं पञ्चविधं ख्यातं सम्यग्मार्गप्रकाशकम् ॥ ४६ ॥ **********************:*** सप्तमः प्रस्तावः ॥२०४॥

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220