SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी प्रस्तावः ॥१६॥ RRRRRRRXXXXXXXXXXXXXXXXXXXXXX विधिना शास्त्रपूतेन प्रत्यलाभि स संयमी । सत्पात्रेऽवसरे प्राप्ते किं विवेकी प्रमाद्यति ॥११५ ॥ युग्मम् ॥ तदानमहिमा तत्र विदधे त्रिदशवजैः। समग्रजनतानन्दी वसुगन्धाम्बुवर्षिभिः॥ ११६॥ माहात्म्येन समं श्रेष्ठी हर्षोत्कर्षमवाप सः । अर्जयामास साम्राज्यं तथा षटखण्डभूभुजः॥ ११७ ॥ यतः विधिना पुण्डरीकाद्रौ यात्रा पात्राश्रिताः श्रियः। क्रियाः सज्ज्ञानसम्यक्त्वाः प्राप्यन्ते पुण्ययोगतः ॥१॥ योगीव परमात्मानं नियोगीव परं पदम् । अविन्दत हयं प्राप्य तदानन्दभरं नृपः ॥ ११८॥ ततो हयानुभावेन भूभृतो राज्यसंपदि । सप्तस्वपि तदा वृद्धिरङ्गषु समभूदहो ! ॥ ११६ ।। अन्यदा जययात्राय व्रजता तेन भूभुजा । स वाजी बालमित्राय वृषभश्रेष्ठिनेऽर्पितः॥१२०॥ रक्षणीयस्त्वया यत्नाद्राज्यसर्वस्वजीवितम् । स्वात्मेवायं नभोगामी वेश्मनीति न्यगादि च ।। १२१॥ रङ्गात्तुरङ्गमं श्रेष्ठी नृपादेशवशंवदः। आनीय पालयामास जिनधर्ममिवालये ॥ १२२ ॥ मनसोऽन्तर्दधौ चिन्तामेवं वृषभसेनकः । प्राप्तः पुण्योदयादेष व्योमगामी यो मया ॥१२३ ॥ तत्पुण्यं क्रियते किश्चिदस्य साहाय्यतोऽधुना । समयं प्राप्य यो धर्म कुरुतेऽसौ विवेकवान् ॥ १२४ ॥ यतः यावत्स्वच्छमिदं शरीरमरुजं यावच्च दूरे जरा यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । ॥१६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy