SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी ॥१८९॥ ************* नाविकव्रजमानन्द्य मूल्यैर्न्यायोचितैस्ततः । क्रमात्समुद्रमुत्तीर्य सार्थः सर्वः समाययौ ॥ १०१ ॥ समुद्रः प्रियया युक्तः क्षमयेव यतिस्ततः । तस्मादुत्तीर्य गन्धर्वादिव महोनतात् ॥ १०२ ॥ गुरुक्रमपयोजन्म श्रियां जन्मगृहं मुदा । ववन्दे यत्सदाचारं न त्यजन्ति कुलोद्भवाः ।। १०३ ।। पुत्रस्य सकलत्रस्य द्विधा तत्रागमे तदा । अत्यद्भुतोत्सव श्रेणी विदधे जनकादिभिः ॥ १०४ ॥ तदश्वद्वयमाहात्म्यात्तस्य गेहे दिने दिने । वृद्धि प्रापुः श्रियः सर्वा अचिन्त्यं वस्तुवैभवम् ॥ १०५ ॥ पद्मश्रीप्रीणितस्वान्तस्त्रिवर्गार्जिनतत्परः । समुद्रो धनवान् जज्ञे पूज्यश्च नगरेऽखिले ॥ १०६ ॥ अन्ः प्राभृती समुद्रो गगनाध्वगम् । सुदण्डभूपतेरवमुच्चैःश्रवः सहोदरम् ॥ १०७॥ ततचमत्कृतः पृथ्वीपतिस्तं प्रीणिताशयः । अनङ्गसेनयाऽनङ्गमहीपालैकसेनया ॥ १०८ ॥ अतुच्छोत्सवसम्मृहैः प्ररोहैरिव सम्पदाम् । उद्वाह्याहार्यसन्मानदानैः सानन्दमानसम् ॥ १०६॥ भूयो ग्रामपुरादीनां प्रत्यष्ठात्प्रभुतापदे । रुष्टस्तुष्टश्च भूभर्ता विधत्ते यन्महापदम् ॥ ११० ॥ त्रिभिर्विशेषकम् ॥ साम्राज्यं पुण्ययोगेन प्राप्तः सागरदत्तभूः । जिनेन्द्रशासनं धर्मकृत्यैर्नित्यमदीपयत् ॥ १११ ॥ भोजनावसरेऽन्येद्युस्तस्य वेश्मशुभोदयात् । पारणार्थी समायासीत्साधुः श्रीगुणशेखरः ॥ ११२ ॥ स्फुर्जल्लब्धिशतस्वामी चामीकरवरद्युतिः । ज्ञानदर्शनचारित्ररत्नत्रयपवित्रितः ॥ ११३ ॥ युग्मम् ॥ तेन तात्कालिकानन्दनिःस्यन्दोन्मग्नचेतसा । नवप्रकारसंशुद्धैरन्नपानादिभिः स्वयम् ॥ ११४ ॥ **************************** षष्ठः प्रस्ताव : ॥१८६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy