SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ पष्टः सम्यक्त्तकौमुदी प्रस्ताव: ॥१६ ॥ आत्मश्रेयसि तावदेव कृतिना कार्य प्रयत्नो महान संदीप्ते भवने हि कूपखननं प्रत्युद्यमः कीदृशः॥१॥ आरुह्य वाजिनं श्रेष्ठी ततोऽभीष्टगतिस्पृशम् । शाश्वतीः प्रतिमा जम्बूद्वीपस्था वन्दतेऽनिशम् ।। १२५ ॥ गिरावष्टापदे गत्वा कदाचिज्जिनपुङ्गवान् । सर्वतीर्थोत्तमे तीर्थे श्रीशत्रुञ्जयपर्वते ॥ १२६ । श्रीसमेतोज्जयन्ताद्रिसिद्ध कूटवनादिषु । नमस्कृत्य नमस्कृत्य स जन्मफलमासदत् ॥ १२७ ॥ युग्मम् ॥ यतः पूजामाचरतां जगत्त्रयपतेः संघार्चनं कुर्वतां तीर्थानामभिवन्दनं विदधतां जैनं वचः शृण्वताम् । सद्दानं ददतां तपश्च चरतां सत्त्वानुकम्पाभृतां येषां यान्ति दिनानि जन्म सफलं तेषां सुपुण्यात्मनाम् ॥१॥ पल्लीपतिपुरोगामी जितशत्रुर्न रेश्वरः । श्रुत्वा तदश्वमाहात्म्यं लोभेनान्धोऽभ्यधादिति ॥१२८॥ वाजिरत्नमिदं मह्य दुष्प्रापं बोधिरत्नवत् । यो दत्तेऽत्र समानीय कश्चित्सुभटकुञ्जरः ॥ १२६ ।। महेन महता पुत्री परिणाय्य धनप्रभाम् । राज्यश्रीसंविभागेन सत्करिष्ये जवेन तम् ।। १३०॥ आकर्ण्य भूभुजो वाचं कुण्डलः कुटिलाशयः । आननीयो मया चाजीत्यवदत्सुभटस्तदा ॥ १३१ ॥ . नृपादेशाद्वजन्मार्गे मुनिचन्द्रगुरोम खात् । धर्मतत्त्वं स विज्ञाय छद्मना श्रावकोऽजनि ॥ १३२ ॥ EXXXXXXXXXXXXXXXXXXXXXXXXX ॥११॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy