Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्वकौमुदी
प्रस्ताव:
॥१२॥
KKXXXXXXXXXXXXXXXXXXXXXXX
ब्रह्मचारिपदं विभ्रन् स्वहस्तन्यस्तपुस्तकः । स पठन् धर्मशास्त्राणि कौशाम्न्यां क्रमतोऽगमत् ॥ १३३ ॥ श्रीजिनेन्द्रगृहप्राप्तं दृष्टा तं वृषभोऽन्यदा । धर्मध्यानकनिष्णातं बभाषे कृतवन्दनः॥ १३४॥ कुतो भवानिहायासीद्ब्रह्मचारिंगणाग्रिम ! किं तपः क्रियते ? शास्त्र किमिदानी तु पठ्यते ? ॥ १३५ ॥ को गुरुभवतो धर्म ? निवासः कुत्र वा कृतः । यौवनेऽपि कथं ब्रह्मचारिता भवता श्रिता १ ॥ १३६ ॥ दम्भसंरम्भतः सर्वा कल्पयित्वा निजां स्थितिम् । स तस्मै कथयामास धमधृत्तव्रजाधिपः ॥ १३७॥ श्रेष्ठी तद्वाचमादाय विस्मितः स्मयमुक्तहृत् । उवाच ब्रह्मचारिंस्त्वं मान्योऽसि महतामपि ॥ १३८॥ वात्सल्यं कतुमिच्छामि तदहं भवतोऽधुना । सम्यक्त्वव्रतयुग् ब्रह्मचारी श्राद्धो हि दुर्लभः ॥ १३६ ॥ कृत्वा प्रसादमायातु वेश्मन्यत्र भवांस्ततः । भोजनावसरे पात्रं प्राप्यते हि शुभोदयात् ॥ १४०॥ यतःकाले सुपत्तदाणं सम्मत्तविसुडबोहिलाभं च । अंते समाहिमरणं अभव्वजीवा न पावंति ॥१॥ इत्युक्त्वा बहुमानेन तमानीय निजालये । स भक्त्या भोजयामास सद्भोज्यैरमृतोपमैः॥ १४१ ॥ भुञ्जानं सर्वभोज्येषु तं निरीहतयाऽधिकम् । दृष्ट्वा सविस्मयः श्रेष्ठी स्वशालायामतिष्ठिपत् ॥ १४२॥ श्रेष्ठिनं प्रीणयंस्तत्र तिष्ठनिःस्पृहवृत्तितः । छद्मना धर्मनिष्ठात्मा तमश्वं पश्यति स्म सः॥ १४३ ॥ वञ्चयित्वाऽन्यदा निद्रामुद्रितं श्राद्धपुङ्गवम् । तमारुह्य निशीथिन्यां स जगाम नभोऽध्वना ॥ १४४ ।। हयोऽपि पूर्वतोऽभ्यासाल्लीलया नभसि व्रजन् । आहतः कशया तेन मर्मदेशे दुरात्मना ॥ १४५ ॥
EXXXXXXXXXXXXXXXXXXXXXXXXXX
॥११२॥

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220