Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
पश्चमः
सम्यक्त्व
कौमुदी
प्रस्ताव:
॥१७४॥
XXXXXXXXXXXXXXXXXXXXXXXXX
निराधारतया दुःखी विंगमात्पापकर्मणः । ततः संवेगमापनः श्रीजिनागारमाप सः ॥ ३१६ ॥ नत्वा भक्त्या जगन्नाथप्रतिमा रत्ननिर्मिताम । पश्यंश्चैत्यातिशायित्वं स प्रापत्सुखमान्तरम् ॥ ३२०॥ ददर्श दर्शितानन्दं श्रुतसारं मुनीश्वरम् । अनश्वरतपोज्ञानं स तस्मिन् विश्ववत्सलम् ॥ ३२१ ॥ नमस्कृत्य क्रियावन्तं तं गुरु गुरुभक्तितः। यथोचितमहीदेशे विनयी स उपाविशत् ॥ ३२२॥ आदिदेश गुरुधर्म तस्य धर्मविदग्रणीः । निष्कारणोपकारित्वं भजन्ते साधवो यतः ॥ ३२३ ॥ धर्मः शर्मद्रुमारामो धर्मः कल्याणसेवधिः। धर्मः प्रत्यूहविध्वंसी धर्मस्त्रैलोक्यबान्धवः ॥ ३२४ ॥ यथा दिनं विना भानु शर्वरी शशिनं विना । तथा न शोभते प्राणी विना धर्मेण कुत्रचित् ।। ३२५ ॥
आरोग्यमैश्चर्यमखण्डसौख्यं सौभाग्यमत्यद्भुतरूपरम्यम् ।।
श्रियः समग्रा जगदयंता च धर्मानुभावेन भवन्ति पुंसाम् ॥ ३२६ ॥ स सर्वदेशभेदाभ्यां जगदे द्विविधो जिनः । साधुश्रावकयोर्योग्यः सम्यग्दर्शनपूर्वकः ॥ ३२७ ॥ सर्वजीवदयोपेता विजिताक्षा निराश्रयाः । परिग्रहविनिमुक्ता मुक्तिदाः स्युर्महर्षयः ॥ ३२८ ॥ यतःसम्मइंसणजुत्ता तवनियमरया विसुद्धदढभावा। देहेवि निरवयक्खा समणा पावैति सिद्धिगई॥१॥ सदृष्टयः सदाचारा द्वादशवततायिनः । भवन्ति गृहिणस्तत्र सप्तक्षेत्रधनव्ययाः ॥ ३२६ ॥ मद्यं मांसं नवनीतं नानाजीववधावहम् । बहुबीजानन्तकायान् मधूदुम्बरपञ्चकम् ॥ ३३०॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
॥१७४॥

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220