Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
सम्यक्त्व
कौमुदी
॥१८०॥
******
*********
श्रीकं तनयं दृष्ट्वा सदाचारधुरन्धरम् । तादृग्मित्रगणोद्वर्ण्य मानसद्गुणसङ्गतम् ॥ ३६२ ॥ क्षणान्निजगृहायातं जननीजनकादयः । जहर्षुः स्वजनाः सर्वे कुर्वन्तः सर्वतो महम् || ३६३ ॥ तदीयाद्भुतमाकर्ण्य विस्मितो नृपतिः पुनः । तत्रागत्य न्यधात् श्रेष्ठिपदे तं मानदानतः ॥ ३६४ ॥ अथ स्वस्वपदे न्यस्य क्रमेण निजनन्दनान् । नृपामात्यसमुद्राख्यश्रेष्ठिनः श्रेष्ठवासनाः || ३६५ ॥ अष्टाहिकोत्सवं कृत्वा दत्वा दानानि चार्थिषु । मुनिचन्द्रगुरोः पार्श्वे जगृहु: संयमश्रियम् ॥ ३६६ ॥ उमयोऽथ पुरे श्रेष्ठिपदं कुर्वन्नगर्वहत् । सुखीचकार निःशेषं लोकं सत्पक्षपोषकः ॥ ३६७॥ कैलाशगिरिसङ्काशं चैत्यं श्री ऋषभप्रभोः । स्फाटिकं तत्र निर्माय स लेभे सम्पदः फलम् ॥ ३६८ ॥ नानाजिनेन्द्रबिम्बानां प्रतिष्ठाः समहोत्सवम् । प्रतिवर्ष विनिर्माय स जन्मफलमग्रहीत् ॥ ३६६ ॥ धन्योऽहं सफलं जन्म ममेति मुदमुद्वहन् । आनर्च जगतः पूज्यं श्रीसङ्घ स चतुविधम् || ४०० ।। यो जिनेन्द्रमते दीक्षामादत्ते भवभीलु (रु) कः । कुर्वेऽहं तत्कुटुम्बस्य चिन्तामित्युदघोषयत् ॥ ४०१ ॥ युग्मम् ॥ क्रमेण संयमं प्राप्य तस्मात् श्रीगुरुपुङ्गवात् । उमयः परमानन्दपदसाम्राज्यमाप्तवान् ॥ ४०२ ॥ मयाऽपि तत्र सम्यक्त्वं तत्त्वश्रद्धानलक्षणम् । प्रापि पुण्यानुभावेन सर्वव्रतविभूषणम् ॥ ४०३॥ इति कनकलतोक्तं श्रेष्टनोश्चरित्रं जिनपतिमतदाढ्र्योद्भूतमाहात्म्ययुक्तम् । अवितथतममेतन्मेनिरे कुन्दवल्लीं चितिपतिसचिवाईद्दासमुख्या विहाय ॥ ४०४ ॥ यतः -
*****
*******
पञ्चमः प्रस्तावः
॥१८०॥

Page Navigation
1 ... 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220