Book Title: Samyaktva Kaumudi
Author(s): Jinharsh Gani, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 186
________________ सम्यक्त्वकौमुदी षष्ठः प्रस्ताव: ॥१८॥ शूरदेवोऽभवच्छु ष्ठी तत्रैव परमार्हतः । सर्वाङ्गीणगुणा तस्य प्रिया गुणवतो तथा ॥ ८॥ पात्रदानजिनेन्द्रार्चादीनोद्धारादिकर्मभिः । दम्पती तौ निजं जन्म कृतार्थीचक्रतुः सदा ॥ ६ ॥ शरदेवोऽन्यदा देशान्तराद्वाणिज्यकर्मणा । आनीय हयरत्नानि भूपतेः प्राभृतं व्यधात् ॥१०॥ धनकोटीप्रदानेन सत्कृत्य बहुमानतः । तस्मै नृपोऽपि हृष्टोऽदान नगरश्रेष्ठिसम्पदम् ॥ ११ ॥ प्रसादो देवभूपाना रत्नसागरवाजिनाम् । वाणिज्यं रससिद्धिश्च दौगत्यं घ्नन्ति तत्क्षणात् ॥ १२॥ स प्राप्य राजसन्मानं राजसंमानमार्हतः। न भेजे परकार्येषु चित्रं क्वापि नदीष्णहृत् ॥ १३ ॥ भोजनावसरे तस्य मुनीन्द्रो गुणशेखरः। एकदा मन्दिरं प्रापत् पारणाय तपोनिधिः॥१४॥ प्रणिपत्यागमोक्तेन विधिना विहितादरः। पायसं परया भक्त्या स तस्मै प्रददौ स्वयम् ॥१५॥ तस्यावासे सुरैश्चक्रे तदा तद्दाननन्दितः । पञ्चाश्चर्यमहो ! साधुदानकल्पद्रुवैभवम् ॥ १६ ॥ सर्वोत्तमरसोपेतान् पात्रदानानुभावतः । बबन्धे शूरदेवेन तीर्थकृत्कर्म तद्भवे ।। १७ ॥ न्यायेन धर्मभेदेषु दानमेव धुरि स्थितम् । लभ्यन्ते तत्प्रसादेन यतः सर्वा अपि श्रियः॥१८॥ मन्ये धर्मप्रभेदेषु दानधर्मो महीपतिः। यदमुधुरि कुर्वन्ति सर्वेऽमी धर्मवादिनः ॥ १६ ॥ पुरे तत्रैव वास्तव्यः श्रेष्ठिसागरदत्तभूः । श्रेष्ठी समुद्रदत्ताख्यः प्रख्यातो गुणवज्जने ॥ २० ॥ निर्धनानां शिरोरत्नं सयत्नोऽपि धनार्जने । दृष्ट्वा तदानमाहात्म्यं चिन्तामेवं दधौ हृदि ॥ २१॥ BXXXXXXXXXXXXXXXXXXXXXXXXX ॥१८२॥

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220